171 814स्थायिभावाननुभावयन्तः सामाजिकानामश्रु भ्रूविक्षेपकटाक्षादयो रसपोषकारिणोऽनुभावाः । एवं चाभिनयकाव्ययोरप्यनुभावता । साक्षाद्भावकानुभवकर्मतयानुभूयन्त इत्यनुभावनमिति वानुभावा रसिकेषु व्यपदिश्यन्ते । विकारो भावसंसूचनात्मक इति तु लौकिकरसापेक्षया, इह तु तेषां कारणत्वमेव । यथा ममैव—
स्थायिभावानिति । काव्याद्युपात्तान् विभावान् भावयतां सामाजिकानां तदुपात्तास्तदनन्तरं भाव्यमाना रसपोषकारिणो येऽश्रुभ्रूविक्षेपकटाक्षादयस्ते अनुभावाः । एवं चेति816 । एवं रसपोषकारिणामनुभावत्वेन रसपोषकारिणोरभिनयकाव्ययोरपि अनुभावतेत्यर्थः817 । एवमनुभावस्वरूपमुक्त्वा तच्छब्दस्यापि समवेतार्थतामाह साक्षादिति । साक्षाद् भावकानामनुभावस्य कर्मतया अनुभूयन्त इत्येवमनुभावा इति, तेषामश्रुप्रभृतीनां फलभूतानाम् अनुभावनम=भावनानन्तरम् इत्यनुभावा इति वा रसिकेषु भवन्तो व्यपदिश्यन्त इत्यर्थः । स्वमतेन सूत्रकारमतेन च निर्वचनद्वयमित्यवगन्तव्यम् । ननु भवदुक्तनिर्वचनं सूत्रविरुद्धमिव । तत्राह विकारो भावसंसूचनात्मक इति ।
-
N.S.P. contains a number of mistakes here, making it difficult to get any proper sense. The reader will see the difference by comparing the present text with that of the N.S.P. I am not reproducing here all the readings from N.S.P.
↩ -
N.S.P. dugdhamahābdhi-.
↩ -
The text of Avaloka in this context in N.S.P. ed. (and others too perhaps) is full of mistakes. The corrected text given now is on the basis of the A.T.A., and the pratīkas and interpretations by Bhaṭṭanṛsiṃha.
↩ -
All the MSS. of the commentary read anubhāvyatety arthaḥ. From the comments of Bh.Nṛ. anubhāvatā seems to be applicable here.
↩