अथ करुणः—
इष्टस्य बन्धुप्रभृतेर्विनाशादनिष्टस्य तु वधबन्धादेः प्राप्त्या शोकप्रकर्षः करुणः । तमन्विति तदनुभावनिःश्वासादिकथनम् । व्यभिचारिणश्चास्यापस्मारादयः । इष्टनाशात् करुणो यथा कुमारसंभवे—
250 इष्टनाशादिति । इष्टनाशानिष्टाप्त्यादिजन्मना शोकेन भावितो निःश्वासाद्यनुभावितोऽपस्मारादिभिर्व्यभिचारिभिरनुविद्धः करुणो रसो भवतीत्यर्थः ।
- ४।३↩