अथ दैन्यम्—
दौर्गत्याद्यैरनौजस्यं दैन्यं कार्ष्ण्यामृजादिमत् ॥ १४ ॥
दारिद्र्यन्यक्कारादिविभावैरनोजस्कता चेतसः=दैन्यम् । तत्र च कृष्णतामलिनवसनदर्शनादयोऽनुभावाः । यथा—
शेषं पूर्ववत् ।वृद्धोऽन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं
कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो ।
यत्नात् संचिततैलबिन्दुघटिका भग्नेति पर्याकुला
दृष्ट्वा गर्भभरालसां सुतबधूं श्वश्रूश्चिरं रोदिति ॥