अथ चिन्ता—
ध्यानं चिन्तेहितानाप्तेः शून्यताश्वासतापकृत् ।
यथा—
पक्ष्माग्रग्रथिताश्रुबिन्दुनिकरैर्मुक्ताफलस्पर्धिभिः
कुर्वत्या हरहासहारि हृदये हारावलीभूषणम् ।
बाले बालमृणालनालवलयालंकारकान्ते करे
विन्यस्याननमायताक्षि सुकृती कोऽयं त्वया स्मर्यते ॥
यथा वा—
अस्तमितविषयसङ्गा मुकुलितनयनोत्पला बहुश्वसिता ।
ध्यायति किमप्यलक्ष्यं बाला योगाभियुक्तेव ॥