अथामर्षः—
अधिक्षेपापमानादेरमर्षोऽभिनिविष्टता ।
850तत्र स्वेदशिरःकम्पतर्जनाताडनादयः ॥ १८ ॥
यथा वीरचरिते—
प्रायश्चित्तं चरिप्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ॥851
यथा वा वेणीसंहारे—
युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं
प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि ।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-
नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥852