विलोभनमाह—
गुणाख्यानाद् विलोभनम् ॥ २७ ॥
यथा रत्नावल्याम्— 22 इति वैतालिकमुखेन चन्द्रतुल्यवत्सराजगुणवर्णनया सागरिकायाः समागमहेत्वनुरागबीजानुगुण्येनैव विलोभनाद् विलोभनमिति ।
यथा च वेणीसंहारे— इत्यादिना यशोदुन्दुभिः161 इत्यन्तेन द्रौपद्या विलोभनाद् विलोभनमिति ।