अथ भेदः—
भेदः प्रोत्साहनाद् भवेत्208 ॥ २९ ॥
यथा वेणीसंहारे— इत्यनेन विषण्णाया द्रौपद्याः क्रोधोत्साहबीजानुगुण्येनैव प्रोत्साहनाद् भेद इति ।
एतानि च द्वादश मुखसंधेरङ्गानि213 बीजारम्भद्योतकानि साक्षात् पारंपर्येण वा विधेयानि । एतेषामुपक्षेपपरिकरपरिन्यासयुक्त्युद्भेदसमाधानानामवश्यंभावितेति ।