अथ रूपम्—

रूपं वितर्कवद्वाक्यं

यथा रत्नावल्याम्—

राजा

अहो किमपि कामिजनस्य स्वगृहिणीसमागमपरिभाविनोऽभिनवं जनं प्रति पक्षपातः । तथा हि—297

प्रणयविशदां दृष्टिं वक्त्रे ददाति न शङ्किता घटयति घनं कण्ठाश्लेषे रसान्न पयोधरौ ।
वदति बहुशो गच्छामीति प्रयत्नधृताप्यहो रमयतितरां संकेतस्था तथापि हि कामिनी ॥298

कथं चिरयति वसन्तकः ? किं नु खलु विदितः स्यादयं वृत्तान्तो देव्याः ।

इत्यनेन रत्नावलीसमागमप्राप्त्याशानुगुण्येनैव देवीशङ्कायाश्च वितर्काद् रूपमिति ।

  1. पृ॰ ११०
  2. ३।९