अथ ग्रथनम्—
ग्रथनं तदुपक्षेपो
यथा रत्नावल्याम्—
देव, क्षग्यतां यद्देवस्यानिवेद्य मयैतत् कृतम् ।406
इत्यनेन वत्सराजस्य रत्नावलीप्रापणकार्योपक्षेपाद् ग्रथनम् ।यौगंधरायणः
यथा च वेणीसंहारे—
पाञ्चालि, न खलु मयि जीवति संहर्तव्या दुःशासनविलुलिता वेणिरात्मपाणिना । तिष्ठतु । स्वयमेवाहं संहरामि ।407
इत्यनेन द्रौपदीकेशसंयमनकार्यस्योपक्षेपाद् ग्रथनम् ।भीमः