अथ पूर्वभावोपगूहने—

कार्यदृष्टयद्भुतप्राप्ती पूर्वभावोपगूहने ॥ ५३ ॥
62

कार्यदर्शनं=पूर्वभावः । यथा रत्नावल्याम्—

यौगंधरायणः

434एवं विज्ञाय भगिन्याः संप्रति करणीये देवी प्रमाणम् ।

वासवदत्ता

435फुडं एव्व किं ण भणेसि ? पडिवाएहि से रअणमालं त्ति ।436

इत्यनेन वत्सराजाय रत्नावली दीयताम् । इति कार्यस्य यौगंधरायणाभिप्रायानुप्रविष्टस्य वासवदत्तया दर्शनात् पूर्वभाव इति ।

अद्भुतप्राप्तिः=उपगूहनम् । यथा वेणीसंहारे—

नेपथ्ये

महासमरानलदग्धशेषाय स्वस्ति भवते राजन्यलोकाय—437

क्रोधान्धैर्यस्य मोक्षात् क्षतनरपतिभिः पाण्डुपुत्रैः कृतानि प्रत्याशं मुक्तकेशान्यनुदिनमधुना पार्थिवाःन्तपुराणि ।
कृष्णायाः केशपाशः कुपितयमसखो धूमकेतुः कुरूणां दिष्ट्या बद्धः प्रजानां विरमतु निधनं स्वस्ति राजन्यकेभ्यः ॥438
युधिष्ठिरः

देवि, एष ते मूर्धजानां संहारोऽभिनन्दितो नभस्तलचारिणा सिद्धजनेन ।

इत्येतेनाद्भुतार्थप्राप्तिरुपगूहनमिति । लब्धार्थशमनात् कृतिरपि भवति ।

  1. Printed text has Rājā for Yaugaṃdharāyaṇaḥ, and also there is difference in the reading.

  2. ‘स्फुटमेव किं न भणसि? प्रतिपादयास्मै रत्नमालामिति ।’ इति च्छाया.

  3. पृ॰ १८५
  4. पृ॰ २०२
  5. वे॰ सं॰ ६।४२