अथाङ्कावतारः—
यत्र 458प्रविष्टपात्रेणासूचित एव पूर्वाङ्काविच्छिन्नार्थतयैवाङ्कान्तरमापतति प्रवेशकविष्कम्भकादिशून्यः सोऽङ्कावतारः । यथा मालविकाग्निमित्रे प्रथमाङ्कान्ते— इत्युपक्रमे मृदङ्गशब्दश्रवणानन्तरं सर्वाण्येव पात्राणि प्रथमाङ्कप्रक्रान्तपात्रसंक्रान्तिदर्शनं द्वितीयाङ्कादावारभन्त इति प्रथमाङ्कार्थाविच्छेदेनैव द्वितीयाङ्कस्यावतरणादङ्कावतार इति ।
अङ्कावतारलक्षणमुक्तं विवृणोति यत्रेति । यत्र सूचनार्थेन पात्रान्तरप्रवेशेन विना पूर्वाङ्कप्रविष्टपात्राण्येव पात्राणि कृत्वा पूर्वाङ्काविभागेन उत्तराङ्क समापतति सोऽङ्कावतारः462 । अविभागत463 इत्यस्य विवरणम् असूचित एवेति । पृथक् सूचनविरहिण्येव उत्तराङ्कपात्रप्रवेशे 464पूर्वाङ्कस्थसूचनमात्रेण यत्र तेनाविभागतः उत्तराङ्कः समापतति सोऽङ्कावतार इत्यर्थः465 । पूर्वाङ्केणोत्तराङ्कस्याविभागेन पातश्च पात्रैकत्वं च यदि स्यात् तदानीमङ्कभेदो न स्यादिति चेत् इतिवृत्तभेदस्यापि भेदकत्वात् । तथैवोदाहरति यथेत्यादिना ।
-
‘पात्राङ्कस्य’ इति पाठः.
↩ -
N.S.P. praviṣṭamātreṇa sūcitam eva.
↩ -
‘तेन हि द्वावपि देव्याः प्रेक्षागेहं गत्वा संगीतकोपकरणं कृत्वा तत्रभवतो दूतं विसर्जयतम् । अथवा मृदङ्गशब्द एवैनमुत्थापयिष्यति ।’ इति च्छाया.
↩ -
N.S.P. aria.
↩ - पृ॰ २१↩
-
The lines from here up to ity arthaḥ are missing in T.MS.
↩ -
Gr.MS. and M.G.T. read avibhāgaḥ.
↩ -
M.G.T. reads uttarāṅkapātrapraveśapūrvāṅkasūcanamātreṇa.
↩ -
na is missing in T.MS. M.G.T. reads asmābhiḥ pūrvaṃ tu na dṛśyate. Tri.MS. reads pūrvas tu na pradarśyate. Gr.MS. reads asmābhir vastunaḥ pradarśyate.
↩