78 अथ धीरोदात्तः—

महासत्त्वोऽतिगम्भीरः क्षमावानविकत्थनः ॥ ४ ॥
स्थिरो निगूढाहंकारो धीरोदात्तो दृढव्रतः ।

महासत्त्वः=शोकक्रोधाद्यनभिभूतान्तःसत्त्वः । अविकत्थनः=अना- त्मश्लाघनः । निगूढाहंकारः=विनयच्छन्नावलेपः । दृढव्रतः=अङ्गीकृत- निर्वाहको धीरोदात्तः । यथा नागानन्दे—

जीमूतवाहनः
सिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति ।
तृप्तिं न पश्यामि तवैव तावत् किं भक्षणात् त्वं विरतो गरुत्मन् ॥502

यथा च रामं प्रति—

आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविप्लवः503 ॥

यच्च केषांचित् स्थैर्यादीनां सामान्यगुणानामपि विशेषलक्षणे क्वचित् संकीर्तनं तत् तेषां तत्राधिक्यप्रतिपादनार्थम् ।

ननु च कथं जीमूतवाहनादिर्नागानन्दादावुदात्त इत्युच्यते । औदात्त्यं हि नाम सर्वोत्कर्षेण वृत्तिः । तच्च विजिगीषुत्व एवोपपद्यते । जीमूतवाहनस्तु निर्जिगीषुतयैव कविना प्रतिपादितः—

तिष्ठन् भाति पितुः पुरो भुवि यथा सिंहासने किं तथा यत् संवाहयतः सुखं हि चरणौ तातस्य किं राज्यतः ।
किं भुक्ते भुवनत्रये धृतिरसौ भुक्तोज्झिते या गुरो रायासः खलु राज्यमुज्झितगुरोस्तत्रास्ति कश्चिद् गुणः ॥504
इत्यादिना,
79 पित्रोर्विधातुं शुश्रूषां त्यक्त्वैश्वर्यं क्रमागतम् ।
वनं याम्यहमप्येष यथा जीमूतवाहनः ॥505
इत्यादिना च ।506 अतोऽस्यात्यन्तशमप्रधानत्वात् परमकारुणिकत्वाच्च वीतरागादिवच्छान्तता । अन्यच्चात्रायुक्तं यत् तथाभूतं राज्यसुखादौ निरभिलाषं नायकमुपपाद्यान्तरा तथाभूतमलयवत्यनुरागोपवर्णनम् । यच्चोक्तं सामान्यगुणयोगी द्विजादिर्धीरशान्त इति, तदपि पारिभाषिकत्वादवास्तवमित्यभेदकम् । अतो वस्तुगत्या बुद्ध-युधिष्ठिर-जीमूतवाहनादिव्यवहाराः शान्ततामाविर्भावयन्ति । अत्रोच्यते—यत् तावदुक्तं सर्वोत्कर्षेण वृत्तिरौदात्त्यमिति, न तज्जीमूतवाहनादौ परिहीयते न ह्येकरूपैव विजिगीषुता । यः केनापि शौर्यत्यागदयादिनान्यानति शेते स विजिगीषुः, न तु यः 507पराक्रमेणार्थग्रहादिप्रवृत्तः । 508तथात्वे च मार्गदूषकादेरपि धीरोदात्तत्वप्रसक्तिः । रामादेरपि जगत् पालनीयमिति दुष्टनिग्रहे प्रवृत्तस्य नान्तरीयकत्वेन भूम्यादिलाभः । जीमूतवाहनादिस्तु प्राणैरपि परार्थसंपादनाद् विश्वमप्यतिशेत इति धीरोदात्ततमः । यच्चोक्तम्—तिष्ठन् भाति—509 इत्यादिना विषयसुखपराङ्मुखतेति, तत् सत्यम् । कार्पण्यहेतुषु स्वसुखतृष्णासु निरभिलाषा एव जिगीषवः । यदुक्तम्—
स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवंविधैव ।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छाययोपाश्रितानाम् ॥510
इत्यादिना । मलयवत्यनुरागोपवर्णनं त्वशान्तरसाश्रयं शान्तनायकतां प्रत्युत निषेधति । शान्तत्वं चानहंकृतत्वं, तच्च विप्रादेरौचित्यप्राप्तमिति वस्तुस्थित्या विप्रादेः शान्तता न स्वपरिभाषामात्रेण । बुद्ध-जीमूतवाहनयोस्तु कारुणिकत्वाविशेषेऽपि 511सकामनिष्कामकरुणादिभेदाद्भेदः । अतो जीमूतवाहनादेर्धीरोदात्तत्वमिति ।

80 ननु सामान्यद्वारा512 प्राप्तानां स्थिरत्वादिगुणानां पुनः किमर्थं क्वचिदुदात्तादौ विशेषसंकीर्तनम् । तत्राह यच्चेति । जीमूतव हनादिरुदात्तत्वेनोदाहृतः । तदसहमानश्चोदयति नन्विति । जीमूतवाहनादिः बुद्धादिवच्छान्त एव । स कथमुदात्तत्वेन उदाह्रियत इति चोद्यार्थः । शमप्रधानत्वादिति । शमो नाम मनसो निरभिलाषत्वम् । कारुण्यं परदुःखदुःखित्वम् । वीतरागादिवदिति । बुद्धादिवदित्यर्थः । शान्तत्वं सदपि जीमूतवाहनादेरुपरितनेन मलयवत्यनुरागेण व्याहतमित्याह अन्यच्चात्रेति । यच्च धीरललितत्वादिगुणयोगेऽपि विप्रादिर्धीरशान्त एव न तु धीरललितादिरिति तदपि स्वपरिभाषामात्रं न वास्तवम् । उपपत्तिशून्या स्वसंज्ञा खलु परिभाषेति । तदेतदाह यच्चेति । वस्तुगत्येति । परिभाषां विहायेत्यर्थः । बुद्धयुधिष्ठिरजीमूतवाहनादीति । बुद्धादिसहपाठेन जीमूतवाहनोऽपि तद्वच्छान्त एवेति द्योतयति । अस्य शान्तत्वम् 513उदात्तत्वाद् विरुद्धम् । तेन जीमूतवाहनः उदात्त एवेति प्रतिपादयितुमारभते अत्रोच्यत इति । ननु उदात्ततया प्रतिपन्नस्य रामादेर्भूम्यादिलाभ एव धीरोदात्तत्वे प्रयोजकः । तत्राह रामादेरपीति । उदात्तत्वपरिपन्थिशमप्रधानत्वं जीमूतवाहनादेः कविनोक्तमिति पूर्वपक्षिणा प्रतिपादितमनुभाष्य परिहरति यच्चोक्तमित्यादिना । न बुद्धादिवदविशिष्टं514 निरभिलाषित्वमेव जीमूतवाहनादौ । किंतु स्वसुखनिरभिलाषित्वमित्युदाहरणेन दर्शयति यदुक्तमिति । न्यायतः प्राप्तमपि शान्तत्वम् उपरितनेन मलयवत्यनुरागेण व्याहतमित्युक्तं परिहरति मलयवत्यनुरागोपवर्णनं त्विति । प्रत्युतेति । मलयवत्यनुरागोपवर्णनस्य शान्तनायकतां प्रति न केवलं विरोध एव किं तु तन्निषेध एवेत्यर्थः । यदुक्तं शान्तो द्विजादिक एव न तु क्षत्रियादिरिति तदपि न पारिभाषिकमेव किं तु वास्तवमिति प्रतिपादयति शान्तत्वं चेति । औचित्यप्राप्तमिति । गुणिसंवादो गुणानामौचित्यं यथा जलस्य शैत्यम्, अग्नेरौष्ण्यमितिवत् । बुद्धादिसहपाठेन निरभिलाषित्वं कारुणिकत्वं च जीमूतवाहनादेरुक्तम् । तत्र निरभिलाषित्वं पूर्वमेव परिहृतम् । कारुणिकत्वमिदानीम् औदात्त्याविरुद्धमिति प्रतिपादयति बुद्धजीमूतवाहनयोस्त्विति । उपसंहरति अत इति ।

  1. ५।१५↩
  2. N.S.P. -vibhramaḥ.

    ↩
  3. नागा॰ १।७↩
  4. नाग॰ १।४↩
  5. N.S.P. ity anena ca.

    ↩
  6. N.S.P. parāpakāreṇa.

    ↩
  7. A.T.A. tathā conmārga-, etc.

    ↩
  8. नागा॰ १।७↩
  9. शाकु॰ ५।७↩
  10. N.S.P. -karuṇatvādidharmatvād bhedaḥ.

    ↩
  11. T.MS. reads sāmānyadvāropāttānām. All others read as given in the text.

    ↩
  12. Gr. MS. reads what is given in the text. M.G.T. omits udāttatvāt. The portion from śāntatvam up to rāmādeḥ is missing in T.MS.

    ↩
  13. Gr. MS. reads avaśiṣṭam, and M.G.T. as anuśiṣṭam.

    ↩