अथ धीरोद्धतः—
दर्पः=शौर्यादिमदः । मात्सर्यम्=असहनता । मन्त्रबलेनाविद्यमानवस्तुप्रकाशनं=माया । छद्म=वञ्चनामात्रम् । चलः=अनवस्थितः । चण्डः= रौद्रः । विकत्थनः=स्वगुणशंसी धीरोद्धतो भवति । यथा जामदग्न्यः—कैलासोद्धारसारत्रिभुवनविजय—515 इत्यादि । यथा च रावणः—त्रैलोक्यैश्वर्यलक्ष्मीहठहरणसहा बाहवो रावणस्य । इत्यादि ।
धीरललितादिशब्दाश्च यथोक्तगुणसमारोपितावस्थाभिधायिनः वत्सवृषभमहोक्षादिशब्दवत् । न जात्या कश्चिदवस्थितरूपो ललितादिरस्ति । तदा हि महाकविप्रबन्धेषु विरुद्धानेकरूपाभिधानमसंगतमेव स्यात्, जातेरनपायित्वात् । यथा च भवभूतिनैक एव जामदग्न्यः—
82 एते धीरललितादिशब्दा यदि व्यवस्थितरूपाभिधायिनः तदानीं महाकविप्रबन्धेषु एकस्य नायकस्य अव्यवस्थितरूपाभिधानमसंगतमेव स्यात् । अस्ति च तत् । 521यद्यव्यवस्थितरूपाभिधायिनः, तदानीमेकस्मिन् प्रबन्धे धीरोदात्तत्वेन परिगृहीतस्यापि नायकस्य धीरोद्धतत्वेनाप्यभिधानं न्याय्यमेव स्यात् । न चैवम् । स्थिते चैवं522 यथा 523तेषामव्यवस्थितरूपाभिधायित्वेऽपि प्रबन्धनायकस्य उपात्तरूपाद् रूपान्तराभिधानं न प्रसजेत्524 तथा वक्तुमारभते धीरललितादिशब्दाश्चेति । द्वैधं शब्दानाम् । केचिद् व्यवस्थितरूपाभिधायिनः यथा गोमहिषादिशब्दाः । केचिदव्यवस्थितरूपाभिधायिनः यथोपाधिशब्दाः । ते ह्येकस्मिन्नेव धर्मिणि भवन्ति यथा देवदत्तः श्यामः पाचको525 दण्डी चेति । धीरललितादिशब्दाश्च गुणमेवोपाधीकृत्य गुणिनि वर्तन्ते । एक एव हि जामदग्न्यो रावणं प्रति धीरोदात्तो भवति । रामं प्रति प्रथमं धीरोद्धतो भवति पश्चाद् धीरशान्तो भवति । अमीषां शब्दानां जात्यभिधायित्वे नैतद् युज्यते । न हि गोशब्दवाच्यो गौः कदाचित् महिषो भवति । तदाह जातेरनपायित्वादिति । नित्यमेकमनेकवृत्ति हि सामान्यम् । सैव च जातिः । तथा च यावदाश्रयभाविन्यास्तस्याः कथमपाय इति । ननु धीरकलितादिशब्दाः यदि गुणारोपितावस्थाभिधायिनस्तर्हि एकस्यैव नायकस्य उपात्तावस्थातः प्रवन्धेष्ववस्थान्तराभिधानमनुचितं स्यात् । तत्राह न चेति । द्विधा खलु नायकाः । कश्चित् प्रधानभूतः । अन्ये तदङ्गभूता इति । तदङ्गभूतानां नायकानां तत्तच्छव्दादिवाच्यो महासत्त्वादिः प्रधाननायकापेक्षावशादव्यवस्थितो भवति । उत्तरोत्तरान् खलु महासत्त्वानपेक्ष्य 526पूर्वपूर्वो महासत्त्वतया गृहीतोऽपि लघुसत्त्वो भवति । तस्मात् तदभिधायिशब्दोऽपि तत्राव्यवस्थिताभिधायी भवति । अङ्गिनि तु नायके नैवमित्याह अङ्गिनस्त्विति । तस्यापेक्षणीयान्तराभावादित्यर्थः । एतद् व्यतिरेकदृष्टान्तेनोपपादयति यथेति । प्रथममुदात्तत्वेन परिगृहीतस्य रामस्य छद्मना वालिवधः अनुदात्तत्वमापादयतीति तथा न परिग्राह्य इति527 । नन्वङ्गिन्येव उपात्तावस्थातः अवस्थान्तराभिधानं दृश्यते । यथा प्रथमं ललिततया परिगृहीतस्य पश्चाद् दक्षिणतया । 528तथा च प्रथमं शठतया परिगृहीतस्य पुनर्धृष्टतेति । तत्राह वक्ष्यमाणानां83 चेति । तेषां हि दक्षिणत्वादीनामुत्पत्तिशिष्टैव सापेक्षतेति वक्ष्यते । अन्यस्यां नायिकायामनुरक्तः पूर्वां प्रति दक्षिणः शठो धृष्टो वा भवति । तस्मात् तेषां दाक्षिण्यादीनां नित्यसापेक्षत्वादुपात्तावस्थातोऽवस्थान्तराभिधानमङ्गवदङ्गिनोऽप्यविरुद्धं भवति । एकप्रबन्धगतस्याङ्गिनो नायकस्यावस्थान्तराभिधानमनुचितमित्येतत् 529नित्यसापेक्षाण्यवस्थान्तराणि विहायेत्यर्थः ।
- वी॰ च॰ २।१६↩
- वी॰ च॰ २।१०↩
- वी॰ च॰ २।१६↩
- वी॰ च॰ ४।२२↩
-
This seems to have reference to Udāttarāghava of Māyurāja. See Dhanika’s comments on III. 24: yathā chadmanā vālivadho māyurājenodāttarāghave parityaktaḥ (and not to Rāmābhyudaya of Yaśovarman as noted by B.M. on III. 24).
↩ - २।६↩
-
This is the reading in M.G.T. and it seems to be so in Gr.MS. too. T.MS. and Tri.MS. read yady apy avyavasthita-, etc.
↩ -
sthite caivam is missing in Gr.MS. T.MS. reads asti caivam which obviously seems to be an error of the scribe.
↩ -
T.MS. reads teṣām apy avyavasthitarūpābhidhāyitve, whereas the others read what is given in the text.
↩ -
Only T.MS. reads na prasajyeta.
↩ -
This is the reading in Gr.MS. and Tri.MS. T.MS. reads yācako instead of pācako, and M.G.T. is corrupt here.
↩ -
T.MS. reads pūrvapūrvatayā.
↩ -
In T.MS. after udāttatvena the other words are missing. See Note 160a to Daśarūpāvaloka. Tri.MS. and M.G.T. read tathā na parigṛhyata iti. Gr.MS. reads what is given in the text.
↩ -
Tri.MS. and Gr.MS. seem to read: yathā ca prathamaṃ lalitatayā parigṛhītasya paścād dakṣiṇatā. dakṣiṇatayā parigṛhītasya punaḥ śaṭhatā. yathā ca prathamaṃ śaṭhatayā parigṛhītasya punar dhṛṣṭateti.
↩ -
What a brilliant comment at the end of the discussion !
↩