129 सात्त्वतीमुपसंहरन्नारभटीलक्षणमाह—
एभिरङ्गैश्चतुर्धेयं सात्त्वत्यारभटी पुनः ।
मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ॥ ५६ ॥
संक्षिप्तिका स्यात् संफेटो वस्तूत्थानावपातने ।
माया मन्त्रबलेनाविद्यमानवस्तुप्रकाशनम् । तन्त्रबलादिन्द्रजालम् ।
मायेन्द्रजालयोर्वैषम्यमाह मायेति ।