भेदान्तरमाह—
यथा—
किमवस्थः पुनरेषां वत्सराजादिर्नाटिकानायकः स्यादित्युच्यते । पूर्वमनुपजातनायिकान्तरानुरागोऽनुकूलः । परतस्तु दक्षिणः । ननु च गूढविप्रियकारित्वाद् व्यक्ततरविप्रियत्वाच्च शाठ्यधार्ष्ट्ये अपि कस्मान्न भवतः । न, तथाविधविप्रियत्वेऽपि वत्सराजादेरा प्रबन्धसमाप्तेर्ज्येष्ठां नायिकां प्रति सहृदयत्वाद् दक्षिणतैव । न चोभयोर्ज्येष्ठाकनिष्ठयोर्नायकस्य स्नेहेन न भवितव्यमिति वाच्यम्, अविरोधात् । महाकविप्रबन्धेषु च—
सुमानुषस्येति । शोभनस्य मानुषस्य । मानुषशब्दादण्प्रत्ययेऽपे मानुषमित्येव रूपं भवतीति । गूढविप्रियकारित्वाविशेषेऽपि दक्षिणत्वेनैव व्यवहारे किं कारणमित्यभिप्रेत्य पृच्छति किमवस्थः पुनरिति । नाटिकानायक इति विशिंषन् उभयनायिकावत्त्वं तस्यावश्यंभावीति ब्रूते । प्रष्टा स्वाभिप्रायमभिव्यनक्ति ननु चेति537 । नन्वेकस्य538 ज्येष्ठायां दाक्षिण्यमेव, कनिष्ठायां तु स्नेह एव । तत्राह न चेति । एकस्याविरुद्धमनेकनायिकाङ्गीकारमेव तर्शयति महाकविप्रबन्धेषु चेति । नन्वनेन ग्रन्थेन कनिष्ठायां कथमसाधारणस्नेहो निषिद्धः । तत्राह अनुरागं न याति न मदनस्य वशमेतीत्यनेनेति ।