धीराधीरा साश्रु सोत्प्रासवक्रोक्त्या खेदयेत् । यथामरुशतके—
अधीरा साश्रु परुषाक्षरं खेदयेत् । यथा—
97 एवमपरेऽपि व्रीडानुपहिताः स्वयमनभियोगकारिणो मध्याव्यवहारा भवन्ति ।
यथा—
स्वतोऽनभियोजकत्वं तु हठकेशकर्षणघनाश्लेषामृते लुब्धयेवेत्युत्प्रेक्षया569 प्रतीयते ।
ननु मध्यालक्षणं स्वतोऽनभियोजकत्वमुक्तम् । तच्च न 570मध्यास्वभावेन । किं तु लोभकृतमिति प्रतिभाति । तत्राह स्वतोऽनभियोजकत्वं त्विति । उत्प्रेक्षाप्रतीतिबलादनभियोगो मध्यास्वभावकृत एवेति ज्ञायते । अन्यस्यान्यथाभानं हि उत्प्रेक्षा । तेन मध्यास्वभावकृत एव स्वयमनभियोगः प्रियतमकृतयोर्हठकेशकर्षणघनाश्लेषामृतयोर्लोभहेतुत्वेन उत्प्रेक्ष्यते । 571तस्याः स्वारसिकमेवानभियोजकत्वमित्यर्थः ।