ननु च रसान्तरस्थायिनेत्यनेनैव रसान्तराणामङ्गत्वमुक्तम् । तन्न । यत्र रसान्तरस्थायी स्वानुभावविभावव्यभिचारियुक्तो भूयसोपनिबध्यते तत्र रसान्तराणामङ्गत्वम् । केवलस्थाय्युपनिबन्धे तु स्थायिनोऽङ्गिव्यभिचारितैव ।
रसेषु नियममाह एक इति । रूपकेषु एक एव रसोऽङ्गी । अन्ये सर्वे रसास्तस्याङ्गम् । स चाङ्गी वीरः शृङ्गारो वा । अङ्गरसेष्वद्भुतं निर्वहण एव कुर्यादित्यर्थः । चोदयति ननु चेति । पूर्वमङ्गिरसस्योपसंग्रहणात् स्थायिनेति रसान्तरस्थायी गृह्यत इत्युक्तम् । तेनैव रसान्तराणामङ्गत्वे सिद्धे सति अङ्गमन्ये रसाः सर्वे इति रसान्तराणामङ्गत्वं न वक्तव्यमिति चोद्यार्थः । परिहरति तन्नेति । विभावानुभावादिसंयोगाद् रसतामापन्नस्य इव तदसंयोगात् केवलीभूतस्यापि स्थायिनोऽङ्गत्वं वक्तुं पुनरपि768 रसग्रहणमित्यर्थः ।
-
M.G.T., T.MS., Gr.MS. read punar api saṃgrahaṇam ity arthaḥ. Only Tri.MS. gives punar api rasagrahaṇam ity arthaḥ.
A.T.A. reads the kārikā- portion here as aṅgam anyarasāḥ sarve. The expression rasa stands for rasībhāvayogya. In this context the following verse may be noted:
↩ratyādayaḥ sthāyibhāvāḥ syur bhūyiṣṭhavibhāvajāḥ |stokair vibhāvair utpannās ta eva vyabhicāriṇaḥ ||