रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थसूचकैः ।
ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत् ॥ ४ ॥
रङ्गस्य 701प्रशस्तिं काव्यार्थानुगतार्थैः श्लोकैः कृत्वा—
703इत्यादिभिरिव भारतीं वृत्तिमाश्रयेत् ।औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया
तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे
संरोहत्पुलका हरेण हसताश्लिष्टा शिवा पातु वः ॥702