अथाधिबलम्—
यथा वेणीसंहारे— अर्जुनः सकलरिपुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः । रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डुपुत्रः ॥735 इत्युपक्रमे राजा अरे, नाहं भवानिव विकत्थनाप्रगल्भः । किंतु— द्रक्ष्यन्ति न चिरात् सुप्तं बान्धवास्त्वां रणाङ्गणे । मद्गदाभिन्नवक्षोऽस्थिवेणिकाभङ्गभीषणम् ॥736 इत्यन्तेन भीमदुर्योधनयोरन्योन्यवाक्यस्याधिक्योक्तिरधिबलम् ।
अरे, नाहं भवानिव विकत्थनाप्रगल्भः । किंतु—
Generating a file for download may take up to a few minutes. Please wait.
This dialog should close automatically when the download has completed.