अथ व्याहारः—
अन्यार्थमेव व्याहारो हास्यलोभकरं वचः ॥ २० ॥
यथा मालविकाग्निमित्रे लास्यप्रयोगावसाने—
आर्य, उच्यतां यस्त्वया क्रमभेदो लक्षितः । 755पढमं पच्चूसे बम्हणस्स पूआ भोदि । सा तए
लंघिदा ।मालविका निर्गन्तुमिच्छति
इत्युपक्रमे
गणदासः
विदूषकं प्रति
विदूषकः
सर्वे स्मयन्ते
इत्यादिना नायकस्य विश्रब्धनायिकादर्शनप्रयुक्तेन हास्यलोभकारिणा वचनेन व्याहारः ।