181
त्वाद् भेदाभेदयोरेकप्रतिनियतः परिहारः स्वीकारो वेत्यनिबन्धनमेतत् । ततः पृथक्
प्रतिभासाप्रतिभासौ सहोत्पत्त्यनुत्पत्ती शब्दान्तरवृत्त्यावृत्त्यादयश्चैकस्यैकदा प्रसज्येरन् ।
न चोपाधेरुपाधिमतो भेदेनानुभवगन्धोऽपि समस्ति । व्यक्तिविनाशे वा विनाशलेशोऽपि
न सामान्यस्याभ्युपेयते परैः ।

व्यक्तिरूपेणेष्यत एवेति चेत् ? ननु व्यक्तिरूपेणेति न निजेन रूपेणेति
विवक्षितम्, अन्यथा विशेषणानर्थक्यात् । निजस्यैव रूपस्य भेदाभेदचिन्तायामयं
प्रसङ्ग इति किमनेन परिहृतम् ? अथ निजमस्य न रूपान्तरं संभवत्येव, कस्य तर्हि
भेदाभेदचिन्तेति सिद्धा निरुपाधयो धर्माः । ननु भिन्नस्याभेदसंभवेऽपि न शब्दान्तर
वैयर्थ्यं विद्म इति किमत्र कुर्मः ? एवं तर्हि भिन्नस्याप्युपाधेर्न भिन्नः प्रकाश इति
किमत्र कुर्म इति ब्रुवतो नैकान्तवादेऽपि दोष इति तथापि व्यर्थो द्वेतमताश्रयः, पर्यन्ते
पादप्रसारिकाया