260
क्षुद्रैरक्षुद्रैरदृश्यैः समानशक्तिभिरधिकशक्तिभिः स्वतन्त्रैः प्रधानसम्मतैकैकजन्तुसनाथापरि
मितयूथैर्वा स्थूलाणुकैकानेकस्वकार्यभागोपादानादिमात्रवेदिभिः षड्गतिपर्यापन्नैः कृतो
भवतु भुवनसन्निवेशः, एक एव तु कर्ताऽस्य मा भूत् ।

नापि बौद्धैस्तथानुपगमात् ततो हेतुव्यावृत्तिः, एकतोऽपि व्यावृत्तिप्रसङ्गात् ।
न च वस्तुबलप्रवृत्तेऽनुमाने परोपगमापेक्षा । उपगममात्रस्य त्यागेनाविरोधात् । तदेवं
बुद्धिमन्मात्रे साध्ये उपादानाद्यभिज्ञतालक्षणविशेषनान्तरीयकतया साक्षादुपादानाद्य
भिज्ञकर्तृसाधनाद् वाभिमतसिद्धिर्नैकान्तिकी, सर्वकार्यक्रियाया एककर्तृत्वासिद्धेः ।
उपादानाद्यभिज्ञमात्रसाधने च वैफल्यम्, भारतादिकथावत् । ततः साधनान्तरा
भावादस्मादेव सर्वज्ञादिगुणवतः सिद्धिरिष्टेति तदपेक्षयैव दूषणमभिधानीयमनेकान्त
लक्षणमिति स्थितम् ।

अतो यावतीमर्थगतिमित्यादि दुर्लङ्घ्यम् । साध्यसामान्यप्रतिबन्धाकृष्टत्वेऽपि
विशेषस्य सिद्धिः साधनाधीनैव, तदेकपरतया साधनोपन्यासादन्यसाधनाभावाच्च ।
बौद्धस्यापि हि नैरात्म्यसिद्धिः साधनाधीनैव । यदि हि नैरात्म्यत्यागेऽपि क्षणभङ्ग
साधनं चरितार्थं भवेत्, तदा किं क्षणभङ्गसाधने नैरात्म्यसिद्धिः स्यात् ? भवतस्तु
सार्वज्ञ्यादिसिद्धिमुद्धूयान्यथाप्युपादानाद्यभिज्ञानलक्षणो विशेष उपपादितः । अतएव
नात्मोपन्यासपूर्वकोऽन्वयो दृष्टान्ते प्रदर्श्यत इति अनुपयुक्तम् । साक्षात् तदन्वयदर्शने
अपि तन्नान्तरीयकत्वं साध्यसामान्यस्य दर्शयितव्यमेव । तच्चैकत्वेन सकलक्रियाधारस्य
व्याप्तेरभावादशक्यम् ।

एतेनैव वाचस्पत्योऽपि सार्वज्ञ्यसाधनाभिनयः प्रतिव्यूढः । सिद्धे तु सर्वज्ञे कर्तरि
कर्तुरेकत्वनिरूपणश्रमोऽस्माकमनुपयोगीत्युपरम्यते । यदप्ययं व्यतिरेकिप्रयोगमाह,
तदप्येकत्वानिश्चयादेव दूषितम्, अनित्यासर्वविषयबुद्धित्वेऽप्युपादानादिवेदनसम्भवस्योप
पादितत्वात् ।

वित्तोकसमाधाने तु धूमाद्धराधरायोगव्यवच्छेदवत् अग्नेः पञ्चवर्णशिखाकला
पताया अप्यनुमानप्रसङ्गः । नात्र सामर्थ्यमिति चेत् ? तत्रापि पक्षायोगव्यवच्छेद एव
सामर्थ्यात् । पृथ्वीभृति प्रयत्नवतः सिद्धावप्येकत्वानिश्चयात् क्व सर्ववेदनसिद्धिः ?