261
तथा न भवामः ? तदवश्यं कर्तातीन्द्रियदर्शी स्वीक्रियमाणो नेश्वरादन्यो युक्तः । तदपि
यत्किञ्चित् । न हि मांसचक्षुष्ट्वेऽपि सर्वसाधारणं करणसामर्थ्यम्, अस्मदत्यन्तमपकृष्टानामपि
गृध्रादीनामिन्द्रियपाटवातिशयदर्शनात् । क्षोदिष्ठानामेव च केषाञ्चित् परमाणुदर्शनमपि
स्यात् कर्मशक्तिविशेषात्, यथा पिपीलिकानामस्मदगोचरगन्धाणुग्रहणम् । न च
तन्मात्रसूक्ष्ममीक्षमाणैर्देशकालविप्रकृष्टस्यापि सूक्ष्मान्तरस्य ग्रहणम्, सकलस्थूलस्य वा ?
तन्न तावतैवेश्वरसिद्धिप्रत्याशा ।

एवं तर्हि भवतु परमाणोर्दर्शनसम्भावना सकलक्षेत्रज्ञतत्समवेतधर्माधर्माशय
विशेषाणां तु कथम् ? न कथञ्चित् । न हि कार्यक्रिया क्षेत्रज्ञस्वरूपादिपरिज्ञानेनापि व्याप्ता
कुलालदृष्टान्ते दृष्टा, किं तु सम्प्रदानोपकरणवेदनद्वारेण तदाकृष्टिरिष्यते । सा चाशक्या,
सामर्थ्यानुपपत्तेः, उक्तक्रमेणापि तन्मात्रवेदनस्य चरितार्थत्वात् । कर्मणि स्वस्याभिप्रेय
माणत्वेन सम्प्रदानताया दुर्वारत्वात्; यथा स्वस्मै मन्दिरं करोतीति । अन्यथा तेनैव
व्यभिचारप्रसङ्गः सम्प्रदानज्ञानापेक्षायाः ।

अनुमीयमानस्तत्रापरः सम्प्रदानवेदी भविष्यतीति चेत्—न, व्यभिचारदर्शनेन
कर्तुः सम्प्रदानज्ञाननान्तरीयकत्वासिद्धेरनुमानवार्ताविरहात् । न चानुमीयमानापेक्षया
तस्याकर्तृत्वम् । एवं हि कुलालस्याप्यकर्तृत्वप्रसङ्गे व्याप्तिग्रहविरहात् तदवस्थोऽनुमाना
नुदयः । तस्माद् यद् यदवश्यं सम्प्रदानज्ञानापेक्षं कर्तृत्वे, स्वात्मापि सम्प्रदानमेषितव्यः ।
न च परमपि सम्प्रदानं व्यवहारप्रसिद्धमुद्धूय क्षेत्रज्ञरूपमसौ ज्ञातुमीशः कर्माशयभेदार्थोप
करणशब्दसंगृहीतानपि । ततो यथा कुलालस्तानविद्वान् दण्डचक्रादिवेदनेनैवोपकरणज्ञः,
तथानुमीयमाना अपि जन्तवः स्वकीयकरमुखादिज्ञानेनाप्यन्ते भविष्यन्ति ।

तत् कुतस्त्यमेतत् क्षेत्रज्ञरूपतदीयधर्माधर्माशयभेदपरिज्ञानम् ? अथाशरीरस्य क्व
स्वाङ्गव्यापारसङ्गतिः ? अशरीरस्य सिद्धिसङ्गतिरपि कीदृशी ? एकत्वे हि सिद्धे शरीरी
प्रादेशिको न सर्वकर्मणि समर्थ इति सामर्थ्यादशरीरिसिद्धिप्रत्याशा, एकत्वं च दुःसाध
मित्युक्तम् । न चाशरीरत्वेऽपि दण्डचक्रकरमुखाद्युपकरणानुपपत्तेः पारिशेष्यात् कर्माशय
भेदज्ञानेनैवोपकरणज्ञाननिष्ठेति सौष्ठवाय । दिक्कालसमवायादेरप्युपकरणसंगृहीतस्य ज्ञानेन
तज्ज्ञतामात्रस्य कृतार्थत्वात् ।

कः पुनरसौ विशेषो यतस्तदवस्थस्य दिगादिज्ञानेनैवोपकरणज्ञता ?