1093 उत्पत्तिगता समाख्या भेदिका भवति । न चेयं तद्गता । तेन ‘एक1354स्य कर्मभेदात्’ इत्येवमेव भवति । नन्वध्यर्य्वादिषु व्याप्रियमाणेषु ‘शमिता पशुं कण्ठे गृह्णाति’ इति श्रवणाद्भेदः स्यात् । नैष दोषः । य एव कश्चिदव्यापृतः स एव ग्रहीष्यति । न च तदा सर्वाध्वर्युपुरुषाणां सर्वर्त्विजां वा व्यापारो विद्यते । तदेतद्वक्ष्यति ‘इ1355तरमन्यस्तेषां यतो विशेषः स्यात्’ इति । प्राप्त्यभावाच्च ‘यद्यब्राह्मणः स्यात्’ इति लिङ्गमसाधकमतो बलाद्यजमानबिषयं कल्प्यते । याजमानप्रकर1356णाम्नानाच्च, शामित्रस्य न कथंचिदब्राह्मणविषयत्वं विज्ञायते । हिंसात्वाद्ब्राह्मणो नेच्छेदिति चेत्तु ल्यमेतदब्राह्मणस्यापि । स हि मन्दप्रतीकारः सुतरां प्रत्यवैति । तेन यथैव शूद्रादिः कथंचिदनिच्छन्का1357र्यते तथैव यो दानादिवशीकृतः करिष्य1358ति सोऽनुष्ठास्य1359तीत्यविरोधः । एतेनैव हेतुनाऽऽर्त्विज्यं निन्द्यते ॥ २९ ॥

इति शमितुरपृथक्त्वाधिकरणम् ॥ १३ ॥

उपगातॄणामृत्विग्भ्योऽनन्यत्वाधिकरणम्

  1. ( अ॰ ३ पा॰ ७ अ॰ ९ सू॰ २३ ) ।
  2. ( अ॰ ३ पा॰ ८ अ॰ १० सू॰ २१ ) ।
  3. ‘तद्ब्राह्मणाय दद्यात्, यद्यब्राह्मणः स्यात्’ इति वाक्यस्येति शेषः । यजमानविषयं कल्प्यत इत्यस्य चानुषङ्गेण शेषपूरणम् ।

  4. कार्यत इति—शभितेति शेषः ।

  5. करिष्यतीति—आर्त्विज्यमित्यर्थः ।

  6. अनुष्ठास्यति—शामित्रमित्यर्थः ।