वैश्वानरद्वादशकपालाधिकारे ह्यष्ट1377त्वादय उच्चार्यमाणाः स्वरूपेणानुपयुज्यमानाः शक्नुवन्त्यवयवत्वं गमयितुम् । स्तुत्या चोपयुज्यन्ते । न त्विह परमसंख्योपात्ता यदधिकारात्सप्तदशत्वमवयवः प्रतीयेत । स्तुत्यर्थं च स्यात् । तस्मादृत्विक्त्वोपसंहारार्थमेवैतदिति सप्तदशर्त्विजः ॥ ३५ ॥

  1. अष्टत्वादय इति‘वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते’ इत्युपक्रम्यैवं श्रूयते’ यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन्नवकपालस्त्रिवृतैवास्मिंस्तेजो दधाति, यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति, यदेकादशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति, यदद्वादशकपालो जगत्यैवास्मिन्पशून् दधाति ( तै॰ सं॰ २-२-५ ) इत्यादिरिति शेषः ।