1097 करोतीति । यथैवास्य सूत्रस्य शाटकं वयेत्युक्ते वानेन शाटकः क्रियत इति हि भाविनि संज्ञाविज्ञानादविरोधो विज्ञायते तथैवात्र प्रत्येतव्यम् । एतेन ‘अध्वर्युं वृणीते’ इति तद्विशेषवचनानि व्याख्यातानि । एवं च व्रियमाणानामृत्विजां द्वितीयानिर्देशोऽवकल्पिष्यते । वरणं चाऽऽधानवत्क्रर्मौपयिकांस्तानुत्पादयद्दृष्टार्थं भविष्यति । वेदपौर्वापर्यपर्यालोचनात्तु ते वरणेन क्रियन्त इत्यवसानान्नाप्रसिद्धिः । न1364 त्विदं निपातना1365ख्यानद्वारेण ऋतुयजननिमित्तत्वं गम्यमानं सत्परित्यक्तुं युज्यते । न च वरणभरणयोः सिद्धर्त्विक्संबन्धित्वेन तानुद्दिश्य श्रूयमाणयोर्विपरीता वचनव्यक्तिर्युक्ता । यच्चाप्रसिद्धाः संस्कर्तुं न शक्यन्त इति वरणेऽप्येवं तुल्यम् । न हि कश्चिदप्रसिद्धं वस्तु कुरुष्वेत्युक्तोऽप्यध्यव1366स्यति । नापि तेन व्या1367पृतेनापि तन्निमित्ता निष्पत्तिरध्यवसीयते । यदि तु वेदवाक्यपौर्वापर्येण ज्ञायत इत्युच्यते ततः सिद्धानामेव संस्कारः सुखतरमध्यवसीयते । जानाति ह्येवं वरणं कुर्वन्यथा वेदस्य प्रसिद्धा एव केचिदृत्विजः । मम तु ते वरणद्वारेण प्रसिध्यन्ति, प्राक्तस्मादन्येनानवधारितत्वात् । अथवा तस्यापि सामान्यतोऽस्त्येव प्रसिद्धिः । सर्वो हि भावः केनचिदात्मना सिध्यन्व्यवहारं साधयति । सर्वात्मिकायाः सिद्धेः क्वचिदप्यभावात् । अतो य ऋतौ यजन्ति ये वाऽऽध्वर्यवादिकं कुर्वन्ति त ऋत्विजः । के च ते, ये तत्समर्थाः, सामर्थ्यरहितानामनधिकारात् । के च समर्थाः, ये विद्वांसः । तत्रापि स्मृतिप्रामाण्याद्ये ब्राह्मणास्तदविशेषप्रसङ्गे पुनर्विशेषो भवति वरणोपात्ता य इति, ततोऽपि पुनर्दक्षिणाभिर्भ्रियमाणा इति । सेयमेतैर्विशेषैः शब्दार्थसंबन्धव्युत्पत्तिर्भवति । विज्ञानं च तद्विषय
-
एवं तावद्ययाश्रुतं भाष्यार्थमुपवर्ण्याधुवा तत्र च विशेषं वक्तुं दूषणे तावदादौ वदति । नत्वित्यादिना ।
↩ -
निपातनेति—‘ऋत्विग्दधृक्—‘इत्यनया स्मृत्या ऋत्विक्पदस्य कर्तृवाचिक्विन्नन्तत्वनिपातनेन ऋतुयजननिमित्तत्वं गम्यत इत्यर्थः ।
↩ -
नाध्यस्यतीति—बुद्धिपूर्वकारी तावदप्रसिद्धं वस्तु कर्तव्यतया न जानाति, न प्रयतते चेत्यर्थः ।
↩ -
व्यापृतेनापीति—अबुद्धिपूर्वकारिणा प्रयत्नाख्यव्यापारे यदृच्छया कियमाणेऽपि न तेन फलनिष्पत्तिर्नैकान्ताद्भवतीत्यर्थः ।
↩