1098 मन्यथाऽन्यथा च प्रसज्यमानं विशेषविषयमुपसंह्रियमाण1368म् । अक्रियमाणमेव सिद्धमृत्विक्त्वम् । अपि च वरणभरणाभ्यामृत्विजो वोत्पाद्येरन्; ऋत्विक्त्वं वा । तत्र ऋत्विजस्तावन्मातृपितृभ्यामेवोत्पादिता इति न पुनरुत्पत्तिमपेक्षन्ते । तथा योग्यतालक्षणमृत्विक्त्वमध्ययनश्रवणाभ्यां सिद्धमिति न पुनः साधनीयम् । वक्ष्यति च ‘याजमाना1369स्तु’ इत्यत्र न योग्यतैषां यजमानेन कर्तव्येति । सर्वत्र च यदनुत्पन्नं तदुत्पाद्यते, किं चैषां प्राग्वरणादनुत्पन्नं कर्म प्रत्यानमनम् । ननु ऋत्विक्त्वमप्यनुत्पन्नम् । सत्यं, तत्तु पश्चादप्युत्पद्यमानं न पश्यामः । अथ यदुत्पद्यते तदेव ऋत्विक्त्वं, तथा सत्यानमनमेव तन्नान्यत्किंचित् । न चेदमदृष्टमृत्विक्त्वम् । यस्य हि कार्यमदृष्टं भवति तत्स्वरूपमप्यदृष्टं भवेत् । ऋत्विक्कार्यं तु कर्मनिर्वृत्तिर्दृष्टैव सा कथमदृष्टसाध्या भविष्यति । यावता च सा भवति तत्सर्वं विद्वत्त्वब्राह्मणत्वादि दृश्यत एव । यत्त्वदृष्टं किंचित्तत्प्रकरणवशात्कर्मप्रयोगवचनेन गृह्यमाणं तदर्थमेव नाध्वर्य्वादित्वे व्याप्रियते । न च तद्वरणभरणाभ्यां जायत इति तयोरनिमित्तत्वं भवति । आहवनीयादीनां त्वप्रकरणोत्पत्तीनामदृष्टोपकाराणामनुत्पन्नावस्थानां संस्कारविधानादुपपन्नमुत्पाद्यत्वम् । न हि तत्र होमादिभिस्त्यज्यमानद्रव्याधारोऽपेक्षितः1370 । तेनावश्यं तत्संबन्धाददृष्टमेवाभ्युपगन्तव्यम् । न च तदग्निमात्रात्सिध्यतीति तन्निर्वृत्त्यर्थमदृष्टमेवाऽऽहवनीयादित्वमपेक्षितम् । अतो नैष दृष्टान्तः । यदि चादृष्टमृत्विक्त्वं वरणभरणाभ्यां जन्येत, ततः सत्रेऽपि यजमानेषु तदाधातव्यं, तद्विशेषाश्चाध्वर्य्वादयो दीक्षा1371वाक्येऽनूद्यन्त इति वरणभरणे कर्तव्ये स्याताम् । तत्र ‘वरणमृ1372त्विजामानमनार्थत्वात्सत्रे न स्यात्स्वकर्मत्वात्’ ‘परिक्रय1373श्च तादर्थ्यात्’ इति च विरुध्यते । तस्मात्कर्मयोग्यतयाऽबधारितानामेव वरणभरणाभ्यामुपादाननियमः कर्मार्थः क्रियते । ऋत्विक्शब्दश्चावैगुण्यात्तद्विषय एवोपसंह्रियमाणः सतोऽप्यन्यान्योग्यान्नाऽऽलम्बते । सत्रे तु स्वयंकर्तृकत्वाद्वरणभरणयोरनपेक्षितयोरग्रहणाद्विनैव ताभ्यामवैगुण्यमिति योग्यतामात्रेणैवाध्वर्युत्वादिसिद्धिः । तद्यथा पौर्णमास्यां विनाऽपि शाखापरिवासनेन यदेवाङ्गारापोहनक्षमं

  1. उपसंह्रियमाणमिति—एभिर्विशेषैर्भवतीति पूरणीयम् ।

  2. ( अ॰ ३ पा॰ ८ अ॰ २ सू॰ ४ ) ।
  3. अपेक्षित इति—देवताये त्यक्तस्य द्रव्यस्य पूर्वदेशविभजनमात्रेणापि प्रक्षेपघटितहोमपदार्थनिष्पत्तेरित्यर्थः ।

  4. दीक्षावाक्य इति—सत्रात्मकद्वादशाहप्रकरणे ह्येवं श्रयते ‘अध्वर्युगृहपति दीक्षयित्वा ब्रह्माणं दीक्षयतितत उद्गातारं, ततो होतारं ततस्तं प्रतिप्रस्थातां दीक्षयित्वाऽर्धिनो दीक्षयति—ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारमुद्रातुः, मैत्रावरुणं होतुः, ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति—आग्नीध्रं ब्रह्मणः, प्रतिहर्तारमुद्रातुः अच्छावाकं होतुः, ततस्तमन्नेता दीक्षयित्वा पादिनो दीक्षयति—पोतारं ब्रह्मणः सुब्रह्मण्यमुद्रातुः ग्रावस्तुतं होतुः, ततस्तमन्यो ब्राह्मणो दीक्षयति ब्रह्मचारी वाऽऽचार्यप्रोषितः, इति, तदस्मिन्बाक्य इत्यर्थः ।

  5. ( अ॰ १० पा॰ २ अ॰ १० सू॰ ३४ )
  6. ( अ॰ १० पा॰ २ अ॰ ११ सू॰ ३५ ) ।