1099 द्रव्यं स एवोपवेष इत्यदोषः । तस्मा1374द्यथा ‘यूपस्य स्वरुं करोति’ इत्यत्राऽऽदाने कर्मशब्द इति व1375क्ष्यति तथाऽत्र भाष्यकारस्य द्रष्टव्यम् ॥ ३३ ॥
पक्षेणेति चेत्1376 ॥ ३४ ॥
वैश्वानरद्वादशकपालाधिकारे ह्यष्ट1377त्वादय उच्चार्यमाणाः स्वरूपेणानुपयुज्यमानाः शक्नुवन्त्यवयवत्वं गमयितुम् । स्तुत्या चोपयुज्यन्ते । न त्विह परमसंख्योपात्ता यदधिकारात्सप्तदशत्वमवयवः प्रतीयेत । स्तुत्यर्थं च स्यात् । तस्मादृत्विक्त्वोपसंहारार्थमेवैतदिति सप्तदशर्त्विजः ॥ ३५ ॥
ब्रह्मादीनामेव ऋत्विक्त्वनियमाधिकरणम्
प्रकृतानां ये केचित्सप्तदशेति प्राप्तेऽभिधीयते । सामानाधिकरण्यप्रयोगान्नियमः ।
-
एवं तर्हि ऋत्विक्शब्दस्य यौगिकत्वे ‘वरणेन ऋत्विजः क्रियन्ते’ इत्यादिभाष्यस्य का गतिरिति चेदत आह—तस्मादित्यादिना ।
↩ -
वक्ष्यतीति—( अ॰ ४ पा॰ २ अ॰ १ सू॰ ६ ) इत्यत्रेत्यर्थः
↩ -
एतत्सूत्रस्थभाष्यस्य सुस्पष्टतयाऽव्याख्याय सूत्रस्य पाठमात्रं कृतम् ।
↩ -
अष्टत्वादय इति‘वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते’ इत्युपक्रम्यैवं श्रूयते’ यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन्नवकपालस्त्रिवृतैवास्मिंस्तेजो दधाति, यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति, यदेकादशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति, यदद्वादशकपालो जगत्यैवास्मिन्पशून् दधाति ( तै॰ सं॰ २-२-५ ) इत्यादिरिति शेषः ।
↩