प्रकृतानां ये केचित्सप्तदशेति प्राप्तेऽभिधीयते । सामानाधिकरण्यप्रयोगान्नियमः । 1100 तच्च दक्षिणादानक्रमवाक्यगतं ब्रह्मादीनां दृश्यते न चमसाध्वर्यूणाम् । यद्यपि च सिद्धमृत्विक्त्वमनूद्यमानं न शक्यमुपसंहर्तुमिति बुद्धिर्भवति तथाऽपि सप्तदशश्रुत्यपेक्षितविशेषावस्थानं तदेष्वेव वेदेन सिद्धवदाश्रितमतोऽम्माकमेवं परिच्छेदो भवति नूनमेत एवर्त्विज इति ॥ ३६ ॥