1100 तच्च दक्षिणादानक्रमवाक्यगतं ब्रह्मादीनां दृश्यते न चमसाध्वर्यूणाम् । यद्यपि च सिद्धमृत्विक्त्वमनूद्यमानं न शक्यमुपसंहर्तुमिति बुद्धिर्भवति तथाऽपि सप्तदशश्रुत्यपेक्षितविशेषावस्थानं तदेष्वेव वेदेन सिद्धवदाश्रितमतोऽम्माकमेवं परिच्छेदो भवति नूनमेत एवर्त्विज इति ॥ ३६ ॥
‘य ऋत्विजस्ते यजमानाः’ इति यजमानर्त्विक्शब्दौ समानविषयौ नियम्य यजमानसंस्कारं दीक्षां ब्रह्मादिषु क्रमार्थमनुवदन्नेतेषु तौ द्वावपीति दर्शयति । तस्माद्ब्रह्मत्वादिकरणयोग्येष्वेवर्तौ यजत्सु ऋत्विक्त्वं न सर्वेषु । तद्विषयमेव चर्तुयजनं शब्दस्य प्रवृत्तिनिमित्तम् । यथा सास्नादिमद्गमनं गोशब्दस्य, यथा धाय्याशब्दः सामिधेनीषु 1378निपा
-
निपात्यमान इति—‘पाय्यसांनाय्यनिकाय्यधाय्या मानहविर्निवाससाभिधेनीषु’ पा॰ सू॰ ( ३-१-१२९ ) इत्यनया स्मृत्येत्यर्थः ।
↩