‘य ऋत्विजस्ते यजमानाः’ इति यजमानर्त्विक्शब्दौ समानविषयौ नियम्य यजमानसंस्कारं दीक्षां ब्रह्मादिषु क्रमार्थमनुवदन्नेतेषु तौ द्वावपीति दर्शयति । तस्माद्ब्रह्मत्वादिकरणयोग्येष्वेवर्तौ यजत्सु ऋत्विक्त्वं न सर्वेषु । तद्विषयमेव चर्तुयजनं शब्दस्य प्रवृत्तिनिमित्तम् । यथा सास्नादिमद्गमनं गोशब्दस्य, यथा धाय्याशब्दः सामिधेनीषु 1378निपा1101 त्यमानस्तास्वेवेत्यवधारणान्नान्यासु धीयमानास्वपि धाय्याशब्दवाच्यत्वं भवतीत्यवधार्यते । तथैतवर्तावेव यजत्सु भवति न तु भवत्येवेत्यवधारयितव्यम् ॥ ३७ ॥
-
निपात्यमान इति—‘पाय्यसांनाय्यनिकाय्यधाय्या मानहविर्निवाससाभिधेनीषु’ पा॰ सू॰ ( ३-१-१२९ ) इत्यनया स्मृत्येत्यर्थः ।
↩