दीक्षादक्षिणावाक्ययोः षोडशानां संकीर्तनात्तावन्तोऽवधारिताः । सप्तदशः कस्तेषामिति न ज्ञायते । सदस्ययजमानचमसाध्वर्यवश्चावशिष्यन्ते । तत्र चमसाध्वर्यूणां तुल्यकल्पत्वादन्यतरावधारणप्रमाणं नास्तीति सदस्ययजमानयोरन्यतरः संदिह्यते । तत्र कर्मकरत्वसामान्यात्सदस्यग्रहणप्रसक्तावभिधीयते । स्वामिसप्तदशाः स्युरिति । कथं पुनः पूर्वत्रर्तुयजमानकर्मनिमित्तत्वमनभ्युपगम्याधुना तत्सामान्यात्स्वामिनः ऋत्विक्कर्माभिधीयते । ‘सदस्यं वृणीते’ इति चोत्पत्तिसंयोगादध्वर्य्वादिवद्भेदः । न च ब्रह्मण्यवयवप्रसिद्धिः संभवति । समुदायप्रसिद्धया बाधितत्वात् । न च ब्रह्मणः पुनर्वरणं विधातुमनुवदितुं वा शक्यम् । अध्वर्य्वादिष्वप्येवमेव प्रसङ्गात् । सर्वेषु चोपहवादिषु ब्रह्ममन्त्रव्य1379तिरेकेणास्य मन्त्रः पठ्यते । तत्र चान्याय्यो विकल्प आश्रीयेत । न च चमससंबन्धेऽपि ब्रह्मणः संकीर्तनं सदस्यशब्देनोपयुज्यते । सामर्थ्याक्षिप्तेन चोपद्रष्ट्रा सदस्येनावश्यं भवितव्यम् । सोऽपि च प्रत्यवेक्षणादृतौ यजतीति शक्यो वक्तुम् । सर्वे 1102 याज्ञिकाश्च भेदेन तं वृण्वते । तस्मादयुक्ता स1380दस्यनिराक्रियेति । उच्यते ।

क्रत्वङ्गत्वेन नैवैह सदस्यस्य निराक्रिया ।
चमसाध्वर्युवत्त्वेष नर्त्विगित्यभिधीयते ॥

सदस्यो हि भेदेन वरीतव्य एव । न च ब्रह्मा सदस्यशब्देनोच्यते । ऋतुयजने सति वरणेनर्त्विक्त्वनियमाद्दक्षिणाभागसंबन्धद्वादशाहदीक्षावाक्ययोश्चासंकीर्तनादृत्विगिति नोच्यते । यथा सत्यपि वरणे ऋतुयजनसंबन्धे च कारणद्वयासंभवाच्चमसाध्वर्यव ऋत्विजो नोक्ताः । स्वामिनस्तु यद्यपि च वरणं नास्ति तथाऽप्यन्यत्सर्वमस्तीति युक्तमृत्विक्त्वम् । यत्तु सदस्योऽपि प्रत्यवेक्षणाद्यजतीति । वचनसामर्थ्यादेवासौ व्रियते, न तु कश्चित्पदार्थस्तदधीनः, येनास्य व्यपदेशः स्यात् । न च प्रत्यवेक्षणं नाम कश्चित्पदार्थो येनास्य कर्तृविशेषः केनचित्प्रमाणेन नियम्येत । तस्मात्सत्येव सदस्ये सूक्तं स्वामिसप्तदशा इति । यत्तु भाष्यकारेण किंचित्सदस्यनिराकरणपरमुक्तं तदृत्विक्त्वनिराकरणपरस्यातिरभसवचनमित्युपेक्षणीयम् ॥ ३८ ॥

  1. व्यतिरेकेणेति—‘ब्रह्मन्नुपहवयस्व’ ‘सदस्योपहवयस्व’ इत्यादिना ब्रह्ममन्त्रापेक्षया सदस्यमन्त्रस्य पृथगाम्नानात् ‘ब्रह्माणमेव ते समामनन्ति’ इत्यादिना भाष्योक्तं ब्रह्मण एव सदस्यत्वं दुरभ्युपगममित्याशयः ।

  2. सदस्यनिराक्रियेति—ब्रह्मव्यतिरिक्तस्य सदस्यस्य निराक्रियेत्यर्थः ।