1102 याज्ञिकाश्च भेदेन तं वृण्वते । तस्मादयुक्ता स1380दस्यनिराक्रियेति । उच्यते ।
सदस्यो हि भेदेन वरीतव्य एव । न च ब्रह्मा सदस्यशब्देनोच्यते । ऋतुयजने सति वरणेनर्त्विक्त्वनियमाद्दक्षिणाभागसंबन्धद्वादशाहदीक्षावाक्ययोश्चासंकीर्तनादृत्विगिति नोच्यते । यथा सत्यपि वरणे ऋतुयजनसंबन्धे च कारणद्वयासंभवाच्चमसाध्वर्यव ऋत्विजो नोक्ताः । स्वामिनस्तु यद्यपि च वरणं नास्ति तथाऽप्यन्यत्सर्वमस्तीति युक्तमृत्विक्त्वम् । यत्तु सदस्योऽपि प्रत्यवेक्षणाद्यजतीति । वचनसामर्थ्यादेवासौ व्रियते, न तु कश्चित्पदार्थस्तदधीनः, येनास्य व्यपदेशः स्यात् । न च प्रत्यवेक्षणं नाम कश्चित्पदार्थो येनास्य कर्तृविशेषः केनचित्प्रमाणेन नियम्येत । तस्मात्सत्येव सदस्ये सूक्तं स्वामिसप्तदशा इति । यत्तु भाष्यकारेण किंचित्सदस्यनिराकरणपरमुक्तं तदृत्विक्त्वनिराकरणपरस्यातिरभसवचनमित्युपेक्षणीयम् ॥ ३८ ॥
समाख्ययाऽध्वर्य्वादीनां नियतपदार्थकर्तृताधिकरणम्
एवं कर्तृभेदं प्रतिपाद्येदानीं समाख्याविनियोगस्य पूर्वपक्षं रचयति स्म । तत्र ‘ते सर्वार्थाः’ इति न ज्ञायते किं क्रत्वर्थपुरुषार्थाभिप्रायमुत क्रत्वर्थसर्वार्थाभिप्रायम् । तत्रापि किं वाक्यसंयुक्तसर्वार्था उतासंयुक्तसर्वार्थाः । यदि तावत्पुरुषार्था अपीत्यभिप्रायः, स वरणभरणयोः प्रकरणाम्नानेन क्रत्वर्थत्वादयुक्तः । उक्तं हि ‘प्रकर1381णविशेषाद्वा तद्युक्तस्य संस्कारो द्रव्यवत्’ इत्यादिषु । तथैका1382दशे वक्ष्यति ‘निर्देशा1383द्वा वैदिकानां स्यात्’ इति । तस्मादेवं तावन्न सर्वार्थत्वम् । नापि संयुक्तेषु ‘तान्पुरोऽध्वर्युर्वि