एवं कर्तृभेदं प्रतिपाद्येदानीं समाख्याविनियोगस्य पूर्वपक्षं रचयति स्म । तत्र ‘ते सर्वार्थाः’ इति न ज्ञायते किं क्रत्वर्थपुरुषार्थाभिप्रायमुत क्रत्वर्थसर्वार्थाभिप्रायम् । तत्रापि किं वाक्यसंयुक्तसर्वार्था उतासंयुक्तसर्वार्थाः । यदि तावत्पुरुषार्था अपीत्यभिप्रायः, स वरणभरणयोः प्रकरणाम्नानेन क्रत्वर्थत्वादयुक्तः । उक्तं हि ‘प्रकर1381णविशेषाद्वा तद्युक्तस्य संस्कारो द्रव्यवत्’ इत्यादिषु । तथैका1382दशे वक्ष्यति ‘निर्देशा1383द्वा वैदिकानां स्यात्’ इति । तस्मादेवं तावन्न सर्वार्थत्वम् । नापि संयुक्तेषु ‘तान्पुरोऽध्वर्युर्वि1103 भजति’ इत्यादिकश्रुतानामन्येषामवतरणमस्तीति । यानि त्वसंयुक्तानि कार्याणि तानि यत्र तत्र वेदे पठितानि येन केनचित्कर्त्रा यथासामर्थ्यं कर्तव्यानीति सर्वार्थाः । प्रयुक्तत्वादिति—सर्वाणि हि कार्याणि शक्नुवन्ति तान्प्रयो1384क्तुम् । तथा1385 तेऽपि कार्याणि । स1386र्वं पुरुषकार्यमिति—यद्यत्कर्मणि पुरुषैः प्राग्वचनविशेषात्स्वसामर्थ्येन शक्यते तत्तदित्येवं युज्यते, न पुरुषार्थाभिप्रायेण । ये पुनराहवनीयादयस्तेषां सर्वार्थत्वमप्रस्तुतमेव । न च प्रसङ्गादुच्यते । स्वकालत्वस्य हेतोरप्यसमर्थत्वात् । न च तस्योत्तरपक्षे कश्चित्पक्षस्य हेतोर्वा परामर्शोऽस्ति । यदि च लौकिककार्यापेक्षया सर्वार्थत्वमभिधीयते ततो ‘विहा1387रो लौकिकानामर्थं साधयेत्प्रभुत्वात्’ इत्युक्त्वा ‘निर्देशा1388द्वा वैदिकानां स्यात्’ इत्यत्र निर्णीतत्वादविचार्यम् । यदपि वेदविहिताग्निकार्यसर्वार्थत्वं प्रकृतिविकृत्योः, तदपि ‘अग्निमुपनिधाय स्तुवते’ इत्युदाहृत्य ‘विश1389ये लौकिकं स्यात्सर्वार्थत्वात्’ 1390‘न वैदिकमर्थनिर्देशात्’ 1391‘तथोत्पत्तिरितरेषां समत्वात्’ ( धिष्ण्याग्नीनां स्यात् ) इति निर्णीतत्वादविचार्यम् । सिद्धान्तवचनमेवैतन्निराकरणोक्त्यभावात् । तस्मादेवं वर्ण्यते । नैवेदमग्नीनां सर्वार्थत्वं पूर्वपक्षीकृतम् । किं तर्हि । अधिकरणान्त1392रसूत्रोक्तन्यायप्रतिपादितानुमितपूर्वपक्षः सिद्धान्त एवायं सूत्रवाक्यभेदेनोच्यते । न चैतदग्निकार्यापेक्षया सर्वार्थत्वम् । किं तर्हि । प्रकृतिविकृत्यपेक्षया । तत्रानारभ्यवादन्यायेनाऽऽधानवदेव पूर्वोत्तरपक्षौ रचयितव्यौ किमाहवनीयादयः प्रकृत्यर्था आहोस्वित्सर्वार्था इति । तत्र 1104 ‘तत्प्रकृ1393त्यर्थं यथान्येऽनारभ्यवादाः’ ‘प्रकृतौ वा1394 द्विरुक्तत्वात्’ इत्येवं प्राप्तेऽभिधीयते । अग्नयः सर्वार्थाः—प्रकृतिविकृत्यर्था भवेयुः । कुतः । स्वकालत्वात्—स्वतन्त्रोत्पत्तित्वादित्यर्थः । तदेतद्वर्णितं ‘स्व1395र्वार्थं वाऽऽधानस्य स्वकालत्वात्’ इत्यत्र । न त्वेतत्सर्वविषयं सर्वार्थत्वमवकल्पते ।
यज्जुह्वति तदाहवनीये इति श्रूयते । न यद्यजेरन्निति । तेनावश्यमाहवनीयचोदनया तावत्प्रतीक्षितव्यं यावत् ‘चतुरवत्तं जुहोति’ ‘यद्ग्रहान् जुहोति’ ‘यच्चमसान् जुहोति’ इति चातिदेशेन संबन्धाद्द्वारं प्राप्तम् ।
तथा च ‘तासा1396मग्निः प्रकृतितः प्रयाजवत्’ इति सिद्धवत्प्रकृत्यर्थत्वं दर्शितम् । तथा वैकृतचरुपुरोडाशानां प्रत्यक्षहविःश्रपणविधानाद्गार्हपत्यप्राप्तिद्वारं नास्तीत्यवश्यं सगार्हपत्यमेव श्रपणं प्रकृतितः प्राप्नुवदपेक्षितव्यम् । अग्निषु पर्यवसितम् । ऋत्विक्षूत्तरं सूत्रमारभ्यते ॥ ३९ ॥
- ( अ॰ ३ पा॰ ४ अ॰ ५ सू॰ १५ ) ।↩
-
तथा द्वादशे वक्ष्यतीत्येवं पाठ आवश्यकोऽप्येकादश इति पाठो लेखकभ्रान्तिमूलक इति ज्ञेयम् ।
↩ - (अ॰ १२ पा॰ २ अ॰ १ सू॰ ३ ) ।↩
-
तान्प्रयोक्तुनिति-अध्वर्य्वादीनाक्षेप्तुमित्येकोऽर्थः ।
↩ -
प्रयुक्तत्वादित्यस्यैव द्वितीयार्थमाहतथेति । अनुष्ठातुं शक्नुवन्तीति शेषपूरणम् ।
↩ -
‘सर्वस्मै पुरुषकार्याय’ इति भाष्यार्थमाह-सर्वमित्यादिना ।
↩ - ( अ॰ १२ पा॰ २ अ॰ १ सू॰ १ )↩
- ( अ॰ १२ पा॰ २ अ॰ १ सू॰ ३ ) ।↩
- (अ॰ ७ पा॰ ३ अ॰ १२ सू॰ ३० ) ।↩
- ( अ॰ ७ पा॰ ३ अ॰ १२ सू॰ ३१ )↩
- ( अ॰ ७ पा॰ ३ सू॰ ३२ ) ।↩
-
अधिकरणान्तरेति—‘प्रकृतौ वा द्विरुक्तत्वात्’ ( अ॰ ३ पा॰ ६ अ॰ १ सू॰ २ ) इत्यनारभ्यवादाधिकरणसिद्धान्तसूत्रेण, खादिरत्वादेः प्रकृतिविकृत्यर्थत्वे द्विरुक्तत्वापत्तिलक्षणो योऽयं न्याय उक्तः, ‘तत्प्रकृत्यर्थं यथाऽन्येऽनारभ्यवादाः’ ( अ॰ ३ पा॰ ६ अ॰ ५ सू॰ १४ ) इत्याधानाधिकरणपूर्वपक्षसूत्रेण चाऽऽधानेऽतिदेशाद्द्रढीकरणेन प्रतिपादितश्च, तेनानुमितः पूर्वपक्षो यस्य सिद्धान्तस्य स एवाग्नीनां सर्वार्थत्वसिद्धान्तः ‘ते सर्वार्थाः प्रयुक्तत्वात्’ इति सूत्रवाक्यापेक्षया थग्भू तेन ‘अग्नयश्च स्वकालत्वात्’ इत्यनेनोच्यत इति पदशोऽर्थ
↩ - (अ॰ ३ पा॰ ६ अ॰ ५ सू॰ १० ) ।↩
- ( अ॰ ३ पा॰ ६ अ॰ १ सू॰ २ ) ।↩
- (अ॰ ३ पा॰ ६ अ॰ ५ सू॰ १५ ) ।↩
- ( अ॰ ३ पा॰ ६ अ॰ ६ सू॰ १६ ) ।↩