1104 ‘तत्प्रकृ1393त्यर्थं यथान्येऽनारभ्यवादाः’ ‘प्रकृतौ वा1394 द्विरुक्तत्वात्’ इत्येवं प्राप्तेऽभिधीयते । अग्नयः सर्वार्थाः—प्रकृतिविकृत्यर्था भवेयुः । कुतः । स्वकालत्वात्—स्वतन्त्रोत्पत्तित्वादित्यर्थः । तदेतद्वर्णितं ‘स्व1395र्वार्थं वाऽऽधानस्य स्वकालत्वात्’ इत्यत्र । न त्वेतत्सर्वविषयं सर्वार्थत्वमवकल्पते ।

द्वारं येषु पराधीनं तेषु तत्प्राप्त्यपेक्षया ।
प्राप्नुवन्तीदृशा भावा न स्वतन्त्राः कथंचन ॥
शास्त्रेण चोदिता ये हि दर्विहोमाः स्वरूपतः ।
तेष्वेवाऽऽहवनीयः स्यान्न यागेष्वप्यचोदनात् ॥

यज्जुह्वति तदाहवनीये इति श्रूयते । न यद्यजेरन्निति । तेनावश्यमाहवनीयचोदनया तावत्प्रतीक्षितव्यं यावत् ‘चतुरवत्तं जुहोति’ ‘यद्ग्रहान् जुहोति’ ‘यच्चमसान् जुहोति’ इति चातिदेशेन संबन्धाद्द्वारं प्राप्तम् ।

ततश्चाऽऽहवनीयेन सहैवास्यातिदेशतः ।
प्रकृतौ वा द्विरुक्तत्वादित्ययं निश्चयो भवेत् ॥

तथा च ‘तासा1396मग्निः प्रकृतितः प्रयाजवत्’ इति सिद्धवत्प्रकृत्यर्थत्वं दर्शितम् । तथा वैकृतचरुपुरोडाशानां प्रत्यक्षहविःश्रपणविधानाद्गार्हपत्यप्राप्तिद्वारं नास्तीत्यवश्यं सगार्हपत्यमेव श्रपणं प्रकृतितः प्राप्नुवदपेक्षितव्यम् । अग्निषु पर्यवसितम् । ऋत्विक्षूत्तरं सूत्रमारभ्यते ॥ ३९ ॥

समाख्यासंयोगाद्वयवस्था भवेत् । न हि हौत्रमकुर्वतो होतृसमाख्याऽर्थवती भवति । नापि तेनाक्रियमाणस्य हौत्रव्यपदेशोऽवकल्पते । तस्मादन्यथानुपपत्त्या कल्पितया श्रुत्या विनियोगः । तत्र केचिदाहुः । अन्योन्यनिरपेक्षयोरेव रूढिरूपेण कर्तृकर्मसमाख्ययोः प्रसिद्धयोरक्षरसारूप्येणोपतिष्ठमानयोर्विनियोजकत्वमिति । कुतः ।

संयोगः पूर्वसिद्धो हि निमित्तत्वं प्रपद्यते ।
न चेह प्राक्समाख्यानात्किंचित्संयोगकारणम् ॥

  1. (अ॰ ३ पा॰ ६ अ॰ ५ सू॰ १० ) ।
  2. ( अ॰ ३ पा॰ ६ अ॰ १ सू॰ २ ) ।
  3. (अ॰ ३ पा॰ ६ अ॰ ५ सू॰ १५ ) ।
  4. ( अ॰ ३ पा॰ ६ अ॰ ६ सू॰ १६ ) ।