1103 भजति’ इत्यादिकश्रुतानामन्येषामवतरणमस्तीति । यानि त्वसंयुक्तानि कार्याणि तानि यत्र तत्र वेदे पठितानि येन केनचित्कर्त्रा यथासामर्थ्यं कर्तव्यानीति सर्वार्थाः । प्रयुक्तत्वादिति—सर्वाणि हि कार्याणि शक्नुवन्ति तान्प्रयो1384क्तुम् । तथा1385 तेऽपि कार्याणि । स1386र्वं पुरुषकार्यमिति—यद्यत्कर्मणि पुरुषैः प्राग्वचनविशेषात्स्वसामर्थ्येन शक्यते तत्तदित्येवं युज्यते, न पुरुषार्थाभिप्रायेण । ये पुनराहवनीयादयस्तेषां सर्वार्थत्वमप्रस्तुतमेव । न च प्रसङ्गादुच्यते । स्वकालत्वस्य हेतोरप्यसमर्थत्वात् । न च तस्योत्तरपक्षे कश्चित्पक्षस्य हेतोर्वा परामर्शोऽस्ति । यदि च लौकिककार्यापेक्षया सर्वार्थत्वमभिधीयते ततो ‘विहा1387रो लौकिकानामर्थं साधयेत्प्रभुत्वात्’ इत्युक्त्वा ‘निर्देशा1388द्वा वैदिकानां स्यात्’ इत्यत्र निर्णीतत्वादविचार्यम् । यदपि वेदविहिताग्निकार्यसर्वार्थत्वं प्रकृतिविकृत्योः, तदपि ‘अग्निमुपनिधाय स्तुवते’ इत्युदाहृत्य ‘विश1389ये लौकिकं स्यात्सर्वार्थत्वात्’ 1390‘न वैदिकमर्थनिर्देशात्’ 1391‘तथोत्पत्तिरितरेषां समत्वात्’ ( धिष्ण्याग्नीनां स्यात् ) इति निर्णीतत्वादविचार्यम् । सिद्धान्तवचनमेवैतन्निराकरणोक्त्यभावात् । तस्मादेवं वर्ण्यते । नैवेदमग्नीनां सर्वार्थत्वं पूर्वपक्षीकृतम् । किं तर्हि । अधिकरणान्त1392रसूत्रोक्तन्यायप्रतिपादितानुमितपूर्वपक्षः सिद्धान्त एवायं सूत्रवाक्यभेदेनोच्यते । न चैतदग्निकार्यापेक्षया सर्वार्थत्वम् । किं तर्हि । प्रकृतिविकृत्यपेक्षया । तत्रानारभ्यवादन्यायेनाऽऽधानवदेव पूर्वोत्तरपक्षौ रचयितव्यौ किमाहवनीयादयः प्रकृत्यर्था आहोस्वित्सर्वार्था इति । तत्र

  1. तान्प्रयोक्तुनिति-अध्वर्य्वादीनाक्षेप्तुमित्येकोऽर्थः ।

  2. प्रयुक्तत्वादित्यस्यैव द्वितीयार्थमाहतथेति । अनुष्ठातुं शक्नुवन्तीति शेषपूरणम् ।

  3. ‘सर्वस्मै पुरुषकार्याय’ इति भाष्यार्थमाह-सर्वमित्यादिना ।

  4. ( अ॰ १२ पा॰ २ अ॰ १ सू॰ १ )
  5. ( अ॰ १२ पा॰ २ अ॰ १ सू॰ ३ ) ।
  6. (अ॰ ७ पा॰ ३ अ॰ १२ सू॰ ३० ) ।
  7. ( अ॰ ७ पा॰ ३ अ॰ १२ सू॰ ३१ )
  8. ( अ॰ ७ पा॰ ३ सू॰ ३२ ) ।
  9. अधिकरणान्तरेति—‘प्रकृतौ वा द्विरुक्तत्वात्’ ( अ॰ ३ पा॰ ६ अ॰ १ सू॰ २ ) इत्यनारभ्यवादाधिकरणसिद्धान्तसूत्रेण, खादिरत्वादेः प्रकृतिविकृत्यर्थत्वे द्विरुक्तत्वापत्तिलक्षणो योऽयं न्याय उक्तः, ‘तत्प्रकृत्यर्थं यथाऽन्येऽनारभ्यवादाः’ ( अ॰ ३ पा॰ ६ अ॰ ५ सू॰ १४ ) इत्याधानाधिकरणपूर्वपक्षसूत्रेण चाऽऽधानेऽतिदेशाद्द्रढीकरणेन प्रतिपादितश्च, तेनानुमितः पूर्वपक्षो यस्य सिद्धान्तस्य स एवाग्नीनां सर्वार्थत्वसिद्धान्तः ‘ते सर्वार्थाः प्रयुक्तत्वात्’ इति सूत्रवाक्यापेक्षया थग्भू तेन ‘अग्नयश्च स्वकालत्वात्’ इत्यनेनोच्यत इति पदशोऽर्थ