1105 होतृशब्दस्तावन्न हौत्रनिमित्त इति राजशब्दवदेव प्रत्ययलोपप्रातिपदिकप्रत्यापत्त्योरस्मरणादवगतमेतत् । न च राजशब्दादिव राज्यशब्दो होतृशब्दाद्धौत्रशब्दः शक्यः कल्पयितुम् । न हि यथा तत्र मन्वादिभिः क्षत्रियस्य रक्षणं विहितं तद्राजकर्मत्वेन ज्ञायमानं प्रत्ययार्थत्वं प्रतिपद्यते । तथेह केनचित्सामिधेन्यनुवचनादेर्होतृकर्मत्वं प्रसिद्धं यन्निमित्ता समाख्या स्यात् । न चैवं सति समाख्या विनियोक्त्रीत्यवसीयते । कथं तर्ह्यसत्यामवयवव्युत्पत्तौ विनियोगः । उक्तमेतच्छब्दसारूप्यमात्रादिति । न त्वेतद्युक्तम् । यदि होतुः कर्म हौत्रमित्येवं न व्युत्पाद्यते ततोऽन्तरेणैव कर्तृकर्मसंबन्धं रूढ्या सारूप्यसमाख्ययोरुपपन्नत्वान्नार्थापत्तिः श्रुतिं कल्पयेत् । न हि वर्णसामान्यमात्रेण शालामालयोः कश्चित्संबन्धः । तथा च व1397क्ष्यति, न हि कण्वरथंतरे रथंतरसंबन्धः कश्चिदस्तीति । यदपि च कृते राज्ञः कर्मसंबन्धे राज्यशब्दः प्रवर्तत इति । तदयुक्तम् । संबन्धस्याऽऽदिमत्त्वप्रसङ्गात् । तस्माद्यथैव तत्र नित्ययोरेव शब्दार्थयोर्नित्य एव संबन्धे शास्त्रतः प्रतीयमाने साधुत्वप्रतिपत्तिवेलायां राजशब्दमन्वाख्याय राज्यशब्दोऽन्वाख्यायमानो यौगिकस्तन्निमित्तश्चोच्यमानोऽपि नित्यनिमित्तत्वान्नाऽऽदिमत्त्वं प्रतिपद्यते तथैवात्र हौत्रमिति वृद्धिदर्शनाद्धोतृशब्दात् ‘तस्येदं कर्म’ इत्येवमन्वाख्यानमिति गम्यते । केन तु तत्तस्य कर्मावगतमिति । समाख्यादर्शनात्तदेव तादृशं वचनमनुमास्यामहे । नन्वितरेतराश्रयं प्राप्नोति समाख्यातस्तद्वचनं, तेन कॢप्ते संयोगे समाख्यासिद्धिरिति । नैष दोषः । समाख्या तावत्प्रतीतिरूपेण प्रत्यक्षा । सा तु केन निमित्तेन प्रवृत्तेति पूर्वप्रवृत्ततयैव निमित्तमपेक्षते । न च तदस्ति । तस्मान्नूनमीदृशी श्रुतिरस्ति, यथा होत्रा कर्तव्यमेतदिति । सर्वेष्वेव लिङ्गादिष्वेवमेतद्भवतीति व्याख्या1398तम् । अतो नेतरेतराश्रयत्वमिति । ननु चेदम् ‘आख्या1399 चैवं तदर्थत्वात्’ इत्यनेनैवाधिकरणेन सिद्धम् । सत्यं सिद्धं न तु तत्र विरोधाविरोधौ विचारितौ । इह तु योग्यत्वप्रकरणविशेषात्सर्वार्थत्वप्रसक्त्या विरोधमाशङ्क्य परिहरति, उत्तरविवक्षया वाऽनुवदतीत्यपुनरुक्तम् ॥ ४० ॥
इति समाख्ययाऽध्वर्य्वादीनां नियतपदार्थकर्तृताधिकरणम् ॥ १९ ॥