1106 विशेषसमाख्याऽपि विशेषश्रुतिवदेव शीघ्रतरप्रवृत्तेर्बाधिका भवति ॥ ४१ ॥
सामान्यसमाख्याविनियोगस्यैवैतल्लिङ्गम् । विशेषसमाख्यायां तु किंचिदन्यद्द्रष्टव्यम् ॥ ४२ ॥
प्रैषान्तानुवचनेष्वेव मैत्रावरुणस्य कर्तृतानियमाधिकरणम्
उपदेशात्सिद्धे समाख्याबाधे समस्तैकदेशविषयत्वेन विचारः । ज्योतिष्टोमप्रकरण एवैतच्छ्रूयते ‘तस्मान्मैत्रावरुणः प्रैष्यति चानु चाऽऽह’ इति । प्रदर्शनार्थं त्वग्नीषोमीय इत्युक्तम् । तत्र सर्वप्रैषाणामाध्वर्यवत्वं, सर्वानुवचनानां च हौत्रसमाख्यनम् । तत्किमनेनोपदेशेन समस्तविषयः समाख्ययोर्बाध उत क्वचिदेवेति । किं प्राप्तं, प्रैषानुवचनोद्देशेन मैत्रावरुणोपादानादुद्दिश्यमानयोश्च शब्द1400प्रतिपादितसाहित्यविवक्षानुपपत्तेः
-
शब्दप्रतिपादितेति—एकवाक्योपादानावगतत्यर्थः ।
↩