न सर्वप्रैषानुवचनेष्वसौ भवेत् । क्व तर्हि । पुरोनुवाक्यासु । प्रैषान्तान्यनुवचनानि पुरोनुवाक्याः । ताश्च प्रकृत्यैतद्वचनं प्रवृत्तं ‘तस्मान्मैत्रावरुणः’ इति । ताश्च तादृश्यो हौत्र एव पठिता इति तस्यैव केवलस्य प्राप्नुवन्ति । यस्तु तासामन्ते यजेतिशब्दः स इष्टिप्रकृतिकेषु तावदङ्गेष्वतिदेशेनाध्वर्योः प्राप्नोति । सोमयागेष्वपि ‘प्रैषेषु1401 च पराधिकारात्’ इत्येवं निवर्तमानः ‘तेषां यतो विशेषः1402 स्यात्’ इत्येवं मैत्रावरुणस्यैव । अथवा प्रेषकस्योभयत्र कर्तृत्वाद्वक्ष्यमाणेन न्यायेन प्रेष्यत्वं मैत्रावरुणस्य कल्पयित्वा होतुरेव प्राप्नोति । तथाऽध्वर्योः ‘प्रेष्य’ इति प्रेषान्तराम्नानात् ‘यज’ इत्येष निवर्तमानः प्रतिप्रस्थातुः प्राप्नोति । शेषाणि तु प्रैषानुवचनानि निर्ज्ञातकर्तृविशेषत्वान्निराकाङ्क्षाण्येवेति न तेषु मैत्रावरुणविधिः संभवति । पुरोनुवाक्यानां पुनरुभयांशपातित्वादेकपदार्थत्वेन च नानाकर्तृत्वानुपपत्तेर्होतुरध्वर्योश्च प्रच्यवमानानां साकाङ्क्षत्वात्संनिधानाच्च युक्तो मैत्रावरुणाविधिः । एवं चशब्दोऽपि सहप्रयोगादपि प्रकृष्टार्थेः समर्थितो भवति, प्रैषसंनिधानात् । न च ‘प्रेष्य’ इत्यादयोऽपि प्रैषास्तस्यैवाऽऽत्मविषयाः संभवन्ति ॥ ४४ ॥