सा नाम विशेषसमाख्या सामान्यसमाख्यां बाधते या तन्निरपेक्षा प्रवर्तते । चमसाध्वर्युसमाख्या तु चमसेष्वध्वर्युवद्वृत्तिं प्रतिपादयति । तद्यदि तावदध्वर्युर्नैव जुहुयान्न तर्हि तान् जुह्वतस्ते चमसाध्वर्यवो भवन्ति । काममजुह्वत एव तद्वद्भावं लभेरन्नान्यथा । यदि तु स जुहोति ततः कदाचित्तस्य व्यापृतत्वेनाशक्तौ सत्यां ते जुह्वतस्तद्वद्भवेयुस्तस्माज्जुहोत्यध्वर्युः ॥ ४७ ॥