मन्त्राणां मुख्यार्थविनियोगाधिकरणम्

इदानीं लिङ्गविनियोगः स्तूयते । लिङ्गं नाम मन्त्राणामर्थप्रत्यायनसामर्थ्यम् । तच्च 746 मुख्ये गौणे च केनचित्प्रकारेण विद्यते । तत्र विनियोगः किं मुख्य एवार्थे भवत्युत गौणेऽपीति संदेहे नैव गौणो नाम कश्चिदस्तीति मन्वान आह—कः पुनर्मुख्यः को वा गौण इति । तत्सिद्धिसूत्रे तु सिद्धे गौणे तन्निमित्तभेदः स्वार्थापरित्यागवृत्तित्वं च व्याख्यातमित्ययमर्थाद्विचारः पूर्वं प्रत्येतव्यः । तत्र च ।

शब्दार्थस्यैव मुख्यत्वं मुखवत्प्रथमोद्गतेः ।
अर्थगम्यस्य गौणत्वं गुणागमनहेतुकम् ॥
शा692खादिभ्यो य इत्येवमिवार्थे मुख्य इत्ययम् ।
शब्दः शब्दाभिधेयत्वात्सर्वेष्वेव प्रसज्यते ॥

परगुणानां परत्राभावादवश्यं गुणेभ्य आयात इत्येवंलक्षणं गौणत्वमित्यतः सर्व एव शब्द उच्चरितेऽभिधीयमानत्वादनन्यगतिः शब्दशक्तिकल्पनां कुर्वन्नर्थान्तरेणाव्यवहितत्वात्प्रथममेव मुखमिव भवतीति मुख्यः । तत्र परपरिकल्पितानि तावद्गौणत्वकारणान्युपन्यस्यन्नाह—अथोच्येत । यस्मिन्निरुपपदादित्यादि ।

सर्वथा लक्षणं नाम यद्व्यवच्छेदकारणम् ।
693राधीनप्रवृत्तिश्च गौणो नित्यं प्रतीयते ॥

न हि यथा केवलादग्निशब्दाज्ज्वलनप्रत्ययो भवत्येवं माणवकप्रत्ययः । पदान्तराधीनत्वात् । यत्रापि पदान्तरं न श्रूयते तत्राप्यर्थप्रकरणादिलभ्यं तदेव व्याप्रियत इत्यव्यभिचारः । तदेव च सामान्यं नाम प्रवृत्तिहेतुर्गुण इति । नैतदेवम् । कुतः ।

747
शब्दार्थस्यैव साहित्यादभिव्यक्तिरियं कृता ।
अन्यस्य द्योतकत्वात्तु नापेतं मुख्यलक्षणम् ॥

यथैव चक्षुषः प्रकाशा694नुग्रहापेक्षित्वेऽपि रूपमर्थो, यथा वा मुक्तसंशयस्य मुख्यस्य वर्णक्रममात्राग्रहणसंस्कारस्मृतिसंबन्धानुभवाद्यपेक्षित्वं तथाऽत्रोपपदमपि नैव विना सामर्थ्यं नामापेक्षितुं शक्यते । अपेक्ष्यमाणमपि च द्योतकत्वेनेतिकर्तव्यतास्थानीयत्वान्न मुख्यतां विहन्ति । तेन विनाऽप्युपपदेन स तस्यार्थो भवत्येव । कथंचित्तु नाभिव्यज्यते । तद्यथा गवादिशब्दानां पृथिव्यादिः । अथोपपदस्य द्योतकत्वं परित्यज्य तुल्यकल्पतोच्यते । यस्मान्नित्यं माणवकाग्निशब्दसमुदायादस्यार्थस्य प्रतीतिरतोऽश्वकर्णादिवत्समुदायवाच्यत्वे सत्यवयवस्य गौणत्वमिति । तदुच्यते ।

न चासौ समुदायार्थः शक्यो वक्तुमिह त्वया ।
अन्वयव्यतिरेकाभ्यामर्थभेदो हि दृश्यते ॥

तत्र समुदायप्रसिद्धिर्भवति यत्रावयवार्थौ तिरोधाय त्यक्तभेदः समुदाय एव प्रतीयते । गम्यते त्वत्राग्निशब्दस्य पैङ्गल्यं माणवकशब्दस्य च पिण्डस्वरूपं विविक्तं वाच्यम् । अत उभावपि प्रात्यात्मिकयोरपि वाचकत्वान्मुख्याविति । इदानीमवयवानुसारेणैव समुदायार्थत्वं समर्थयमान आह—अनुगतस्वार्थपदद्वयगम्यत्वान्नीलोत्पलवद्वाक्यार्थः । अतश्च तस्य पदार्थप्रत्याय्यत्वाच्छब्दं प्रति पूर्ववदेव गौणत्वमिति । तन्निराकरोति ।

अग्निमाणवकत्वाभ्यां यद्येकोऽर्थो विशेषितः ।
नीलोत्पलवदिष्येत ततो वाक्यार्थता भवेत् ॥

न त्वत्र तदीयो मुख्यार्थोऽग्नित्वमस्ति । न च भवतः पैङ्गल्यं वाच्यम् । अस्मत्पक्षाभेदप्रसङ्गात् । तस्मान्न वाक्यार्थः । तेन ज्वलने माणवकस्य च पैङ्गल्ये तुल्यवच्छब्दप्रवृत्तिरिति मुख्यत्वम् । माणवकस्येति भाष्ये पैङ्गल्यव्यतिरेकजनिता षष्ठी । नाभिधातृव्यतिरेक748 जनिता । न हि माणवकस्वरूपमग्निशब्दाद्गम्यते । न हि पर्यायत्वे माणवकशब्दः प्रयुज्येत । अथोच्येत यः सुष्ठु प्रसिद्ध इति मुक्त्वोपपदव्यापारं यत्कृतं तस्याऽऽश्रयणमनाश्रयणं च ते एव मन्दसुष्ठुप्रसिद्धी गौणमुख्यविभागाय दर्शयति । तत्रोत्तरम् ।

प्रसिद्धिरिति विज्ञानं न चास्योनातिरिक्तते ।
तस्मान्न तत्कृतः शक्यो विशेषो वक्तुमञ्जसा ॥

इदानीं श्रोतृगतप्रसिद्धिभेदमूलं वक्तृगतं बह्वल्पप्रयोगित्वं विभागार्थं दर्शयति । यस्य च बहुशः प्रयोग इत्यादि । तन्निराक्रियते ।

अल्पशोऽपि प्रयुक्तस्य सकृच्छक्तिर्निरूपिता ।
न निवर्तत इत्येवमुमयोस्तुल्यता पुनः ॥

इहापि च गोशब्दस्य पृथिव्यादौ मन्दसुष्ठुप्रसिद्धिप्रयोगौ दर्शयितव्यौ । तथा चाऽऽहुः ।

मण्डकैर्बहुशस्तृप्तिः कदाचित्खण्डमोदकैः ।
न चात्र मण्डका मुख्या गौणा वा खण्डमोदकाः ॥

इदानीं विशेषं कथयति । सत्यपि तावन्माणवकसामानाधिकरण्येऽरुणाशब्दन्यायेन, सति सादृश्येऽभिधानादसति चानभिधानादन्यत्रासादृश्यवति वृत्तिदर्शनादसति चादर्शनाद्विशेषणत्वादवश्यंभाविप्रथमप्रत्यायने सादृश्यमेव प्रथमं प्रत्याययितव्यम् । न चानवग749 तेऽग्नौ तत्प्रतीयत इति प्रथमतरमग्नेरभिधानम् । ततश्च तत्संबन्धादेव शेष695प्रतीतेर्व्यक्ति696वदनभिधेयत्वम् । सन्ति चैवमादिषु कानिचिद्रूपादिसामान्यानीत्युक्तम् । तस्मादस्ति गौणमुख्यविभाग इत्यारम्भमधिकरणम् । एते च तत्सिद्धिसूत्रोक्तैः सह नव गौणपक्षा द्रष्टव्याः ।

जहत्स्वार्थाभिधायित्वं संघातः परिकल्पना ।
तथा सोपपदा वृत्तिः समुदायप्रसिद्धिता ॥
वाक्यार्थोऽल्पप्रसिद्धित्वमेवमल्पप्रयोगिता ।
अष्टावेतान्निराकृत्य साधिता गुणलक्षणा ॥
तत्र नित्यं परार्थत्वादुभयत्र प्रयोगिता ।
साक्षान्न ह्यभिधानस्य किंचिदभ्यधिकं फलम् ॥

एवं च सति गौण्या वृत्त्या पूषादिशब्दैरग्न्याद्यभिधानादनुत्कर्षो भविष्यति । अन्यथा यत्र पूषादयस्तत्र नीयेरन् । तथाऽग्न्यादिशब्दैः सूर्याद्यभिधानादविकारे सत्यार्षचोदकोऽनुग्रहीष्यते । इत्येवं प्राप्ते ब्रूमः ।

अर्थाभिधानसंयोगान्मन्त्राणां क्रतुशेषता ।
मुख्येन च कृतार्थानां न गौणे श्रुतिकल्पना ॥

750 697‘अपि वा प्रयोगसामर्थ्यात्’ इत्यनेन हि न्यायेनाभिधेये तावद्विनियोगाय मन्त्राः श्रुतिं परिकल्पयन्ति । तत्र यदि जहत्स्वार्था गौणी वृत्तिर्भवेत्ततस्तुल्यवदुभयत्रापि श्रुतिः कल्प्येत । यदि तु गौणमपि वदता पूर्वतरं स्वार्थोऽभिधेयस्तदा तदतिक्रमकारणाभावात्तद्विनियोगश्रुतौ कल्पितायां निराकाङ्क्षेषु मन्त्रप्रकरणस्वाध्यायाध्ययनविधिषु न पुनः श्रुतिकल्पनहेतुरस्तीति न विनियोगः । किं च698 ।

कृतार्थे मन्त्रपाठे च गौणानां स्मारकान्तरम् ।
अनिवारितसामर्थ्यप्राप्तं किमिति बाध्यते ॥

अपि च ।

मुख्यः प्रत्याय्यते कस्माद्गौणेऽप्यर्थे विवक्षिते ।
अन्यथानुपपत्त्या चेन्न ध्यानाद्युपपत्तितः ॥
751
पाक्षिकत्वेऽप्यनित्यत्वात्पक्षेऽनर्थकता भवेत् ।
नित्यं मुख्यापरित्यागान्मत्पक्षश्चाऽऽश्रितो भवेत् ॥
न चार्थप्रत्यये सिद्धे मन्त्रः कार्योऽभिधायकः ।
मन्त्राम्नानार्थवत्त्वं च मुख्येनार्थेन सेत्स्यति ॥

तेनैष सूत्रार्थः । यस्मादर्थाभिधानसंयोगान्मन्त्रेषु शेषभावस्तस्मादौत्पत्तिकेनैवार्थेनैषां संयोगः स्यात् । कुतः । तेनैवाव्यभिचारितया नित्यसंयोगात् ॥ १ ॥

अचोदिते—पूषादौ, दर्शपूर्णमासयोर्थन्मन्त्रा न विनियुज्यन्ते युक्तमेव तत् । संस्कारस्य संस्कार्यपरत्वाल्लिङ्गेन च प्रकरणबाधात् । कथं पुनरेषामुत्कृष्टानां वैदिकैः कर्मभिर्योगः । कथं वा क्रत्वङ्गसामान्यविनियोगमन्तरेण लिङ्गं देवतायामेव केवलायां विनियोजकमिति । तदुच्यते ।

यागानुमन्त्रणानीति समाख्या क्रतुयोजिनी ।
तस्माच्छक्त्यनुरोधेन प्राप्तिस्तद्देवते क्रतौ ॥

यागानुमन्त्रणसमाख्या ह्येषां यागसंबन्धादृतेऽनुपपद्यमाना यागसामान्याङ्गत्वं गमयति ।

अतो विशेषचिन्तायामशक्येष्वनियोजनात् ।
शक्यार्थविनियोगाय लिङ्गव्यापारसंभवः ॥ २ ॥
इति मन्त्राणां मुख्यार्थविनियोगाधिकरणम् ॥ १ ॥
  1. पा॰ सू॰ ( ५-३-१०३ ) ।

  2. पराधीना शब्दप्रवृत्तिर्यस्मिन्नर्थे स गौण इत्यर्थः ।

  3. प्रकाशापेक्षितत्वेऽपीति पा॰ ।

  4. शेषप्रतीतेः-अवशिष्टार्थप्रतीतेरित्यर्थः ।

  5. व्यक्तिवदिति-आकृत्यधिकरणन्यायेनेत्यर्थः ।

  6. ( अ॰ २ पा॰ १ अ॰ ६ सू॰ ३१ )
  7. ‘अपि च गौणस्येत्यादि—मुख्ये च विशेषः’ इत्यन्तं भाष्यं व्याचष्टे—किं चेत्यादिना बाध्यतेन्तेन ।