अध्यायः 136
अष्टावक्रेण वादे पराजितस्य वन्दिनो जनकेन जले विनिमज्जनम् ॥ 1 ॥ जलमज्जितेषु सर्वविप्रेषु समुत्थितेषु अष्टावक्रेण स्वपित्रा कहोळेन मातुलेन
च सह स्वाश्रमगमनम् ॥ 2 ॥ अष्टावक्रस्य पितृचोदनया समङ्गाप्रवेशाद्देहस्य
समीभवनम् ॥ 3 ॥
अत्रोग्रसेनसमितेषु राजन्
समागतेष्वप्रतिमेषु राजसु ।
न मे विवित्सान्तरमस्ति वादिनां
महाजने हंसविवादिनामिव ॥
न मोक्ष्यसे वै वदमानो निमज्जन्
जलं प्रपन्नः सरितामिवाधनः ।
हुताशनस्येव समिद्धतेजसः
स्थिरो भवस्वेह ममाद्य वन्दिन् ॥
वन्द्युवाच ।
व्याघ्रं शयानं प्रति मा प्रबोध
आशीविषं सृक्विणी संलिहानम् ।
पदा हतस्येह शिरोभिहत्य
नादष्टो वै मोक्ष्यसे तन्निबोध ॥
यो वै दर्पात्संहननोपपन्नः
सुदुर्बलः पर्वतमाविहन्ति ।
तस्यैव पाणिः सनखो विदीर्यते
न चैव शैलस्य हि दृश्यते व्रणः ॥
अष्टावक्र उवाच ।
सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः ।
निकृष्टभूता राजानो वत्सा ह्यनडुहो यथा ॥
यथा महेन्द्रः प्रवरः सुराणां
नदीषु गङ्गा प्रवरा यथैव ।
तथा नृपाणां प्रवरस्त्वमेको
वन्दिं समभ्यानय मत्सकाशम् ॥
लोमश उवाच ।
एवमष्टावक्रः समितौ हि गर्ज-
ञ्जातक्रोधो वन्दिनमाह राजन् ।
उक्ते वाक्ये चोत्तरं मे ब्रवीहि
वाक्यस्य चाप्युत्तरं ते ब्रवीमि ॥
वन्द्युवाच ।
एक एवाग्निर्बहुधा समिध्यते
एकः सूर्यः सर्वमिदं विभाति ।
एकोऽवीरो देवराजोऽरिहन्ता
यमः पितृणामीश्वरश्चैक एव ॥
अष्टावक्र उवाच ।
द्वाविन्द्राग्नी चरतो वै सखायौ
द्वौ देवर्षी नारदपर्वतौ च ।
द्वावश्विनौ द्वे रथस्यापि चक्रे
भार्यापती द्वौ विहितौ विधात्रा ॥
वन्द्युवाच ।
त्रिः सूयते कर्मणा वै प्रजेयं
त्रयो युक्ता वाजपेयं वहन्ति ।
अध्वर्यवस्त्रिसवनानि तन्वते
त्रयो लोकास्त्रीणि ज्योतींषि चाहुः ॥
अष्टावक्र उवाच ।
चतुष्टयं ब्राह्मणानां निकेतं
चत्वारो वर्णा यज्ञमिमं वहन्ति ।
दिशश्चतस्रो वर्णचतुष्टयं च
चतुष्पदा गौरपि शश्वदुक्ता ॥
वन्द्युवाच ।
पञ्चाग्नयः पञ्चपदा च पङ्क्ति-
र्यज्ञाः पञ्चैवाप्यथ पञ्चेनद्रियाणि ।
दृष्ट्वा वेदे पञ्चचूडाप्सराश्च
लोके ख्यातं पञ्चनदं च पुण्यम् ॥
अष्टावक्र उवाच ।
षडाधाने दक्षिणामाहुरेके
षट् चैवेमे ऋतवः कालचक्रम् ।
षडिन्द्रियाण्युत षट् कृत्तिकाश्च
षट् साद्यस्काः सर्ववेदेषु दृष्टाः ॥
वन्द्युवाच ।
सप्त ग्राम्याः पशवः सप्त वन्याः
सप्त च्छन्दांसि क्रतुमेकं वहन्ति ।
सप्तर्षयः सप्त चाप्यर्हणानि
सप्तन्त्री प्रथिता चैव वीणा ॥
अष्टावक्र उवाच ।
अष्टौ शाणाः शतमानं वहन्ति
तथाष्टपादः शरभः सिंहघाती ।
अष्टौ वसूञ्शुश्रुम देवतासु
यूपश्चाष्टास्रिर्विहितः सर्वयज्ञे ॥
वन्द्युवाच ।
नवैवोक्ताः सामिधेन्यः पितॄणां
तथा प्राहुर्नवयोगं विसर्गम् ।
नवाक्षरा बृहती संप्रदिष्टा
नवैव योगो गणनामेति शश्वत् ॥
अष्टावक्र उवाच ।
दिशो दशोक्ताः पुरुषस्य लोके
सहस्रमाहुर्दशपूर्णं शतानि ।
दशैव मासान्बिभ्रति भर्गवत्यो
दशैरका दशदाशा दशार्हाः ॥
वन्द्युवाच ।
एकादशैकादशिनः पशूना-
मेकादशैवात्र भवन्ति यूपाः ।
एकादश प्राणभृतां विकारा
एकादशोक्ता दिवि देवेषु रुद्राः ॥
अष्टावक्र उवाच ।
संवत्सरं द्वादशमासमाहु-
र्जगत्याः पादो द्वादशैवाक्षराणि ।
द्वादशाहः प्राकृतो यज्ञ उक्तो
द्वादशादित्यान्कथयन्तीह घीराः ॥
वन्द्युवाच ।
त्रयोदशी तिथिरुक्ता महोग्रा
त्रयोदशद्वीपवती मही च ।
लोमश उवाच ।
एतावदुक्त्वा विरराम वन्दी
श्लोकस्यार्धं व्याजहाराष्टवक्रः ।
अष्टावक्र उवाच । त्रयोदशाहानि ससार केशी
त्रयोदशादीन्यतिच्छन्दांसि चाहुः ॥
लोमश उवाच ।
ततो महानुदतिष्ठन्निनाद-
स्तूष्णींभूतं सूतपुत्रं निशम्य ।
अधोमुखं ध्यानपरं तदानी-
मष्टावक्रं चाप्युदीर्यन्तमेव ॥
तस्मिंस्तथा संकुले वर्तमाने
स्फीते यज्ञे जनकस्योत राज्ञः ।
अष्टावक्रं पूजयन्तोऽभ्युपेयु-
र्विप्राः सर्वे प्राञ्जलयः प्रतीताः ॥
अष्टावक्र उवाच ।
अनेनैव ब्राह्मणाः शुश्रुवांसो
वादे जित्वा सलिले मज्जिताः प्राक् ।
तानेव धर्मानयमद्य वन्दी
प्राप्नोतु गृह्याशु निमज्जयैनम् ॥
वन्द्युवाच ।
अहं पुत्रो वरुणस्योत राज्ञ-
स्तत्रास सत्रं द्वादशवार्षिकं वै ।
सत्रेण ते जनक तुल्यकालं
तदर्थं ते प्रहिता मे द्विजाग्र्याः ॥
ते तु सर्वे वरुणस्योत यज्ञं
द्रष्टुं गता इम आयान्ति भूयः ।
अष्टावक्रं पूजये पूजनीयं
यस्य हेतोर्जनितारं समेष्ये ॥
अष्टावक्र उवाच ।
विप्राः समुद्राम्भसि मज्जिता ये
वाचा जिता मेधया वा विदानाः ।
तां मेधया वाचमथोज्जहार
यथा वाचमवचिन्वन्ति सन्तः ॥
अग्निर्दहञ्जातवेदाः सतां, गृहान्
विसर्जयंस्तेजसा न स्म धाक्षीत् ।
बालेषु पुत्रेषु कृपणं वदत्सु
तथा वाचमवचिन्वन्ति सन्तः ॥
श्लेष्मातकी क्षीणवर्चाः शृणोषि
उताहो त्वां स्तुतयो मादयन्ति ।
हस्तीव त्वं स्तुतयो मादयन्ति ।
न मामिकां वाचमिमां शृणोषि ॥
जनक उवाच ।
शृणोमि वाचं तव दिव्यरूपा-
ममानुषीं दिव्यरूपोऽसि साक्षात् ।
अजैषीर्यद्वन्द्विनं त्वं विवादे
निसृष्ट एष तव कामोऽद्य वन्दी ॥
अष्टावक्र उवाच ।
नानन जीवता कश्चिदर्थो मे वन्दिना नृप ।
पिता यद्यस्य वरुणो मज्जयैनं जलाशये ॥
वन्द्युवाच ।
अहं पुत्रो वरुणस्योत राज्ञो
न मे भयं विद्यते मज्जितस्य ।
इमं मुहूर्तं पितरं द्रक्ष्यतेऽय-
मष्टावक्रश्चिरनष्टं कहोळम् ॥
लोमश उवाच ।
ततस्ते पूजिता विप्रा वरुणेन महात्मना ।
उदतिष्ठंस्ततः सर्वे जनकस्य समीपतः ॥
कहोळ उवाच ।
इत्यर्थमिच्छन्ति सुताञ्जना जननकर्मणा ।
यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम ॥
उताबलस्य क्लवानुत बालस्य पण्डितः ।
उत वाऽविदुषो विद्वान्पुत्रो जनक जायते ॥
वन्द्युवाच ।
शितेन ते परशुना स्वयमेवान्तको नृप ।
शिरांस्यपाहरन्नाजौ रिपूणां भद्रमस्तु ते ॥
महदैक्थ्यं गीयते साम चाग्र्यं
सम्यक्सोमः पीयते चात्र सत्रे ।
शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः
साक्षाद्देवा जनकस्येह राज्ञः ॥
लोमश उवाच ।
समुत्थितेष्वथ सर्वेषु राजन्
विप्रेषु तेष्वधिकं सुप्रभेषु ।
अनुज्ञातो जनकेनाथ राज्ञा
विवेश तोयं सागरस्योत वन्दी ॥
अष्टावक्रः पितरं पूजयित्वा
संपूजितो ब्राह्मणैस्तैर्यथावत् ।
प्रत्याजगामाश्रममेव चाग्र्यं
जित्वा वन्दिं सहितो मातुलेन ॥
ततोऽष्टावक्रं मातुरथान्तिके पिता
नदीं समङ्गां शीघ्रमिमां विशस्व ।
प्रोवाच चैनं स तथा विवेश
समैरङ्गैश्चापि बभूव पुण्या
नदी समङ्गा च बभूव पुण्या
यस्यां स्नातो मुच्यते किल्बिषाद्धि ।
त्वमप्येनां स्नानपानावगाहैः
सभ्रातृकः सहभार्यो विशश्व ॥
अत्र कौन्तेय सहितो भ्रातृभिस्त्वं
सुखोषितः सह विप्रैः प्रतीतः ।
पुण्यान्यन्यानि शुचिकर्मैकभक्ति-
र्मया सार्धं चरितास्याजमीढ ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि षट््त्रिंशदधिकशततमोऽध्यायः ॥ 136 ॥
3-136-1 नावैमि वन्दिं वरमत्र वादिनां महाजले हंसमिवाददामि
इति झ. पाठः ॥ 3-136-2 न मेऽद्य वक्ष्यस्यतिवादिमानिन् ग्लहं प्रपन्नः
सरितामिवागमः । इति झ. पाठः ॥ 3-136-3 प्रबोध प्रबोधय ॥ 3-136-4 संहननेन देहेन
दृढकायत्वेन उपपन्नः ॥ 3-136-6 वन्दिं वन्दिनम् । विभक्त्यलोपे नकारलोप आर्षः ॥ 3-136-13 षडेव यज्ञाः सर्ववेदेष्विति ध. पाठः ॥ 3-136-15 अष्टौ
दिगीशान्यतमानान्वदन्ति इति ख. पाठः । अष्टौ योगाः प्रथिमानं वहन्ति इति ध. पाठः ॥ 3-136-21 सूतपुत्रं वरुणपुत्रम्. उदीर्यन्तमुदीर्यमाणम् । स्तूयमानमित्यर्थः ॥ 3-136-23 शुश्रुवांसः पण्डिताः ॥ 3-136-25 जनितारं वरुणम् ॥ 3-136-26 वाचा
उच्चैः पाठेनैव । उत मेधया ऊहापोहकौशलेन । विप्राः विदानाः पण्डिता अपि जिताः
मज्जिताश्च तां प्रसिद्धां वाचं वेदमयीं मेधया सहितां वन्दिना कुतर्कार्णवे
मज्जितां अहं यथा उज्जहार उद्धृतवानस्मि तथा सन्तः सदसद्वचनविवेककुशलाः
अवचिन्वन्ति परीक्षयन्ति । लोडर्थे लट् । परीक्षयन्त्वित्यर्थः ॥ 3-136-27
अग्निः दहन् स्वभावेन दाहकोऽपि जातवेदाः जातानि सतामसतां च वृत्तानि वेद
जानातीति जातवेदाः । सतां सत्याभिसंधीनां गृहान् शरीराणि विसर्जयन् वर्जयन्
तेजसा यथा अधाक्षीत्स्म अर्थादनृताभिसंधिगृहान् । नशब्द उपमार्थे । यथा
तप्तपरशुग्रहणे वह्निः सत्याभिसंधि न दहति सत्यपक्षपाती नतु
जातिवयोविद्यादिपक्षपाती । एवं सन्तोपि बालादिषु । अतो बालवचनमिति मद्वाक्यं
नावमन्तव्यमिति भावः ॥ 3-136-28 श्लोष्मातकीशब्दिततस्तरुविशेषस्तस्य पत्रेषु
भोजनं तत्फलभक्षणं च बुद्धिघ्रं दोषकरं चेति प्रसिद्धम् ॥ 3-136-29 अद्य तव
कामो निसृष्टः एष वन्दी दृश्यतामिति शेषः ॥ 3-136-33 इत्यर्थं एतदर्थम् ॥ 3-136-35 शितेन तीक्ष्णेन ते तव रिपूणामित्यन्वयः । यमादपि तव
शथ्रुसंहरणशक्तिरधिकेति भावः ॥ 3-136-36 औक्थ्यं उक्थ्याख्यक्रतुविशेषे गेयम् ॥ 3-136-38 सौतिं सूतस्य वरुणस्य पुत्रम् ॥ 3-136-39 समानि अङ्गानि करोतीति
समगेति योगो दर्शितः । शकन्ध्वादित्वात् पररूपम् ॥ 3-136-41 प्रतीतो विश्रब्धः ॥