214

षट्पदार्थवादे वैशेषिकस्य पूर्वपक्ष–


ननु वैशेपिकैरभ्युपगता द्र1774व्य-गुण-कर्म-सामान्य-विशेष-समवायाख्याः षट् पदार्थाः अभा1775
वाख्यश्च सप्तम, ते च अन्योन्याऽसंभविलक्षणलक्षितत्वेन अन्योन्यमे
कान्ततो भिन्ना प्रमाणत सुप्रसिद्धा एव । तथाहि–द्रव्यलक्षणं1776
तावद् गुणादिषु न सभवति । तस्य हि लक्षणम्–द्रव्यत्वाभिसम्बन्धः,
क्रियावद्गुणवत्समवायिकारणत्वञ्च । तथा च सूत्रम्–क्रिया1777वद् गुणवत् समवायिकारणं
द्रव्यम् वैशे॰ सू॰ १ । १ । १५
इति । तल्लक्षितानि पृथि1778वी-अप्-तेजः-वायु-आकाश-काल
दिक्-आत्म-मनांसि नवैव द्रव्याणि । तत्र पृथिव्यप्तेजोवायवो द्विविधा नित्याऽनित्यभेदात् ।
तत्र परमाणुरूपा नित्या स1779दकारणवत्त्वात् । द्व्यणुकाद्यवयविरूपास्तु अनित्या उत्पत्तिमत्त्वात् ।
आकाशकालदिगात्ममनांसि तु नित्यानि एव ।


तच्च1780 इद द्रव्यलक्षण केवलव्यतिरेक्यनुमानम्, तथाहि–द्रव्यम् इतरेभ्यो भिद्यते द्र1781व्यत्वा
भिसम्बन्धात् क्रियावद्गुणवत्समवायिकारणत्वाद्वा, यत् पुनः इतरेभ्यो न भिद्यते न तत्तथा
यथा गुणादि, तथा च तत्, तस्माद् इतरेभ्यो भिद्यते । व्यवहारो वा साध्य–विवादास्पदी
भूतं वस्तु द्रव्यम् इति व्यवहर्त्तव्यम् प्राक्तनादेव हेतो, यत्तु नैवं व्यवह्रियते न तत् तथा यथा
गुणादि, तथा चेदम्, तस्मात् द्रव्यम् इति व्यवहर्त्तव्यम् । एवं शेषलक्षणान्यपि, पृथिवी
त्वाभिसम्बन्धात् पृथिवी प्रश॰ भा॰ पृ॰ २०
अप्त्वाभिसम्बन्धाद् आपः प्रश॰ भा॰
पृ॰ ३५
तेजस्त्वाभिसम्बन्धात् तेजः प्रश॰ भा॰ पृ॰ ३८ वायुत्वाभिसम्बन्धाद् वायुः
प्रश॰ भा॰ पृ॰ ४४
इत्येतानि बोद्धव्यानि । आकाश1782-काल-दिशां तु एकैकत्वात् तल्लक्षणभूताऽ
परसामान्याऽभावेऽपि पारिभाषिकाः क्य तिस्रः संज्ञा लक्षणम्–आकाशम्, काल, दिक् इति ।

  1. धर्मविशेपप्रसूताद् द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाना पदार्थाना साधर्म्य-वैधर्म्याभ्या
    तत्त्वज्ञानान्नि श्रेयसम् ।
    वै॰ सू॰ १ । १ । ४ ।

  2. भावपरिज्ञानापेक्षित्वादभावस्य पृथगनुपसख्यानम्
    प्रश॰ व्यो॰ पृ॰ २० । अभावस्य पृथगनुपदेश भावपारतन्त्र्यात् नत्वभावात् । प्रश॰ कन्दली
    पृ॰ ७ । अभावस्य च समानतन्त्रसिद्धस्याऽप्रतिषिद्धस्य न्यायदर्शने मानसेन्द्रियतासिद्धिवदत्राप्य
    विरोधात् अभ्युपगमसिद्धान्तसिद्धत्वात् ।
    न्यायली॰ पृ॰ ३ ।

  3. –णं गुणा– आ॰

  4. क्रिया
    गुणवत् समवायिकारणमिति द्रव्यलक्षणम् ।
    वै॰ सू॰ १ । १ । १५ ।

  5. पृथिव्यापस्तेजोवायुराकाश
    कालो दिगात्मा मन इति द्रव्याणि ।
    वै॰ सू॰ १ । १ । ५ ।

  6. सदकारणवन्नित्यम् । वै॰ सू॰ ४ । १ । १ ।

  7. लक्षणं च भेदार्थं व्यवहारार्थ चेति । तथाहि–पृथिव्यादीनि इतरस्माद् भिद्यन्ते द्रव्याणीति वा
    व्यवहर्त्तव्यानि द्रव्यत्वयोगात् ।
    प्रश॰ व्योम॰ पृ॰ १५० । पृथिव्यादीना नवानामपि द्रव्यत्वयोग ।
    प्रश॰ भा॰ पृ॰ २० । एतेन द्रव्यादिपदार्थस्य इतरेभ्यो भेदलक्षणमुक्तम् । प्रश॰ कन्दली पृ॰ २० ।

  8. द्रव्यत्वात् ब॰, ज॰

  9. आकाशकालदिशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः संज्ञा
    भवन्ति आकाश कालो दिगिति ।
    प्रश॰ भा॰ पृ॰ ५८ ।