-
n404
↩
विचारयति–अत्र प्रचक्षते केचिच्छ्रुत शब्दानुयोजनात् । तत्पूर्वनियमाद्युक्त नान्यथेष्टविरोधत ॥ शब्दा
नुयोजनादेव श्रुत हि यदि कथ्यते । तदा श्रोत्रमतिज्ञान न स्यान्नान्यमतौ भवम् ॥ यद्यपेक्षवचस्तेषा
श्रुत साव्यवहारिकम् । स्वेष्टस्य बाधन न स्यादिति सप्रतिपद्यते ॥ न सोऽस्ति प्रत्ययो लोके यः
शब्दानुगमादृते । इत्येकान्त निराकर्तुं तथोक्त तैरिहेति वा ॥ ज्ञानमाद्य स्मृति सज्ञा चिन्ता चाभिनि
वोधिकम् । प्राग्नामससृत शेष श्रुत शब्दानुयोजनात् ॥ अत्राकलङ्कदेवा प्राहु–ज्ञानमाद्य स्मृतिः
तत्रेद विचार्यते–मतिज्ञानादाद्यादाभिनिबोधिकपर्यन्ताच्छेष श्रुत शब्दानुयोजनादेवेत्यवधारणम्, श्रुतमेव
शब्दानुयोजनादिति वा ? यदि श्रुतमेव शब्दानुयोजनादिति पूर्वनियमः तदा न कश्चिद्विरोध, शब्द
ससृष्टज्ञानस्य अश्रुतज्ञानत्वव्यवच्छेदात् । अथ शब्दानुयोजनादेव श्रुतमिति नियमः, तदा श्रोत्रमति
पूर्वकमेव श्रुत न चक्षुरादिमतिपूर्वकमिति सिद्धान्तविरोध स्यात् । साव्यवहारिक शाब्द ज्ञान श्रुतमि
त्यपेक्षया तथानियमे तु नेष्टबाधाऽस्ति चक्षुरादिमतिपूर्वकस्यापि श्रुतस्य परमार्थतोऽभ्युपगमात् स्वसमय
प्रतिपत्ते । अथवा न सोस्ति प्रत्ययो लोके य शब्दानुगमादृते । अनुविद्धमिवाभाति सर्व शब्दे प्रतिष्ठि
तम् ॥ इत्येकान्त निराकर्तु प्राग्नामयोजनादाद्यमिष्ट न तु तन्नामससृष्टमिति व्याख्यानमाकलकमनु
सर्त्तव्यम् । पृ॰ २३९-४० शब्दानुयोजनात्त्वेषा श्रुतमस्त्वक्षवित्तिवत् । सभवाभावसवित्तिरर्थापत्तिस्त
थानुमा ॥ नामाससृष्टरूपा हि मतिरेषा प्रकीर्तिता । नात कश्चिद्विरोधोऽस्ति स्याद्वादामृतभोगिनाम् ॥
–तत्त्वार्थश्लो॰ पृ॰ २४३ । अत्र च यत् शब्दसयोजनात् प्राक् स्मृत्यादिकमविसवादिव्यवहारनिर्वर्त
नक्षम प्रवर्तते तन्मति, शब्दसयोजनात् प्रादुर्भूत तु सर्वं श्रुतमिति विभागः । –सन्मति॰ टी॰ पृ॰
५५३ । षड्द॰ बृह॰ पृ॰ ८४B । -
बाभिनि– ब॰ ।
↩ - ↩
-
नमता विद्यानन्दिनमैतिह्याद्यैर्विभूष्य सस्क्रियते ।
न्यायकुमुदचन्द्रोत्तरभाग सम्यङ् महेन्द्रेण ॥ १ ॥