404

विवृतिः–अ3116विसवादस्मृतेः फलस्य हेतुत्वात् प्रमाणं धारणा, स्मृतिः संज्ञायाः
प्रत्यवमर्शस्य, संज्ञा चिन्तायाः तर्कस्य, चिन्ताऽभिनिबोधस्यानुमानादेः । प्रा3117क्
शब्दयोजनात् शेषं श्रुतज्ञानमनेकप्रभेदम् ।


कारिकाव्याख्यानम्–


यत् प्रथमकारिकायां शेषम् अविश3118द ज्ञानमित्युक्तम्, तत् किम् ? §3119श्रुतम् अवि
स्पष्टतर्कणम् §
श्रुतमविस्पष्टतर्कणम्3120 इत्यभिधानात् । किं
यत् नामयोजनाज्जाय3121तेऽविशदं ज्ञानं तदेव श्रुतम्, उतान्यदपि ? इत्याह–
प्राङ् नामयोजनात् । नाम्नः अभिधानस्य योजनात् पूर्वमुपजायते यदस्पष्टं ज्ञानं
तच्छुतम् नामयोज3122नाजनितार्थाऽस्पष्टज्ञानसाधर्म्यादित्यभिप्रायः । चिन्ता च इत्यत्र
चशब्दो भिन्नप्रक्रम शब्दानुयोजनात् इत्यस्यानन्तर द्रष्टव्यः । तेन न केवलं
नामयोजनात् पूर्वं यदस्पष्ट ज्ञानमुपजायते तदेव श्रुतं किन्तु शब्दानुयोजनाच्च यदुप

  1. तुलना–धारणास्वरूपा च मति अविसवादस्वरूपस्मृतिफलस्य हेतुत्वात् प्रमाणम्, स्मृति
    रपि तथाभूतप्रत्यवमर्शस्वभावसज्ञाफलजनकत्वात्, सज्ञापि तथाभूततर्कस्वभावचिन्ताफलजनकत्वात्,
    चिन्तापि अनुमानलक्षणाभिनिबोधफलजनकत्वात्, सोऽपि हानादिबुद्धिजनकत्वात् ।
    सन्मति॰ टी॰
    पृ॰ ५५३ । षड्द॰ बृह॰ पृ॰ ८४B ।

  2. तुलना–प्राक् शब्दयोजनात् मतिज्ञानमेतत् शेषमने
    कप्रभेद शब्दयोजनादुपजायमानमविशदं ज्ञान श्रुतमिति केचित्
    सन्मति॰ टी॰ पृ॰ ५५३ । षड्द॰ बृह॰
    पृ॰ ८४B

  3. –शदज्ञान– श्र॰

  4. एतदन्तर्गत पाठो नास्ति आ॰, श्र॰

  5. उद्घृतमिदम् –सिद्धिवि॰ टी॰ पृ॰ १०१B तुलना–मतिपूर्वं ततो ज्ञेय श्रुतमस्प
    ष्टतर्कणम् ।
    तत्त्वार्थश्लो॰ पृ॰ २३७ । न्यायवि॰ वि॰ पृ॰ ५०४B ।

  6. –तेवि– आ॰, ब॰, श्र॰

  7. –योजनाज्जनि– श्र॰