520
अ5018प्रतिनियते चानुमानतोऽभावसिद्धेः कथमुक्तदोपानुषङ्गः ? तच्चानुमानम्5019–देशान्त
राणि चैत्रशून्यानि चैत्राधिष्ठितदेशव्यतिरिक्तत्वात् तत्समीपदेशवत् । न च देशान्तराणि
चैत्रयुक्तानि तत्समीपदेशव्यतिरिक्तत्वात् चैत्राधिष्ठितदेशवत् इति प्रत्यनुमानोपहतमेतदि
त्यभिधातव्यम्5020; त5021त्पक्षस्य प्रत्यक्षादिबाधितत्वात् । तदेवमर्थापत्तेः अनुमानादर्थान्त5022र
त्वाऽसिद्धेः सिद्ध प5023रेषां प्रमाणसख्याव्याघात ।
ननु भ5024वतामप्येव प्रमाणसंख्यानियमविरोधस्तुल्यः उपमानादेः प्रदिपादितप्रमाण
प्रपञ्चस्य प्रत्यक्षपरोक्षाभ्यामर्थान्तरत्वाऽविशेषात् इत्यारेकापनोदार्थमाह–सर्वस्य
इत्यादि । सर्वस्य अनन्तरोक्तस्य उपमानादिप्रमा5025णप्रपञ्चस्य परोक्षेऽन्तर्भावात् नाऽस्माक
कश्चिद्दोषः । कस्मात् तस्य तत्रान्तर्भाव इति चेत् ? त5026ल्लक्षणलक्षितत्वात् । यस्य यल्लक्षण
लक्षितत्वं तस्य तत्रान्तर्भावः यथा रूपसुखादिसंवेदनस्य प्रत्यक्षे, परोक्षलक्षणलक्षितत्वञ्च
उपमानादेरिति । यथैव हि रूपादिसंवेदनस्य सुखादिसंवेदनस्य च विषय5027भेदात् साम5028ग्री
भेदाच्च अ5029न्योन्यं वैलक्षण्येऽपि वैशद्यस्वरूपप्रत्यक्षलक्षणलक्षितत्वात् प्रत्यक्षत्वम्,
तथा उपमानादेरपि अवैशद्यस्वभावपरोक्षलक्षणलक्षितत्वात् परोक्षत्वमिति ।
नन्वेवमपि परोक्षस्य स्मृतिप्रत्यभिज्ञानतर्काऽनुमानागमभेदैः परिगणितत्वा5030त्
कथमुपमानादेस्तत्रान्तर्भावः, तदन्तर्भावे वा परिगणनविरोधः ? इत्यसमीचीनम्; उ5031प
मानादेः प्रत्यभिज्ञानादिरूपतया तत्परिगणनाऽविरोधकत्वात् । दर्शनस्मरणकारणकं हि
स5032ङ्कलनं प्रत्यभिज्ञानमुच्यते, इदमप्युपमानादिज्ञानं दर्शनस्मरणकारणकं सादृश्यादि
-
अतिनियते आ॰ ।
↩ -
तुलना–देशान्तराणि चैत्रशून्यानि चैत्राधिष्ठितव्यतिरिक्तत्वात् तत्समीपदेशवदिति । –
↩
न्यायम॰ पृ॰ ३८ । -
ननु देशान्तर शून्य चैत्रेणैव प्रतीयते । तद्देशव्यतिरिक्तत्वात् समीपस्थित
↩
देशवत् । विरुद्धाव्यभिचारित्व तद्वदेव हि गम्यते । समीपदेशभिन्नत्वाच्चैत्राधिष्ठितदेशवत् । एतदुक्त
भवति–न तावद्देशान्तराणि चैत्रशून्यानि तत्सयुक्तदेशव्यतिरिक्तदेशत्वादिति हेतु सभवति, सन्दिग्ध
त्वात्, देशान्तराण्यपि तत्सयुक्तानि न वेत्येतावदेव विचार्यते । कथ तेषा तत्संयुक्तदेशाद् व्यति
रेकसिद्धि । यदि परमेवमुच्यते–यमेवाधुना चैत्रोऽधिष्ठितोऽपवरकदेश तद्व्यतिरिक्तत्वादिति, एव
विधश्चाप्रयोजको हेतु, इतरथा हि शक्यते–चैत्रयुक्त देशान्तर तत्समीपव्यतिरिक्तदेशत्वात् तदघिष्ठि
तदेशवदिति । –मी॰ श्लो॰ अर्था॰, न्यायर॰ पृ॰ ४६१–६२ । -
प्रतिपक्षप्रयोगस्तु प्रत्यक्षा
↩
दिविरुद्धत्वाद्धेत्वाभास एव । –न्यायम॰ पृ॰ ४५ । -
–न्तरतासिद्धे श्र॰ ।
↩ -
मीमासकानाम् ।
↩ -
जैनानामपि ।
↩ -
प्रमाणपञ्चकस्य ब॰ ।
↩ -
उपमानादय परोक्षेऽन्तर्भवन्ति परोक्षलक्षणलक्षितत्वात् । तुलना–यदेकलक्षणलक्षित
↩
तद्व्यक्तिभेदेऽप्येकमेव यथा वैशद्यैकलक्षणलक्षित चक्षुरादिप्रत्यक्षम्, अवैशद्यैकलक्षणलक्षितञ्च शब्दा
दीति । –प्रमेयक॰ पृ॰ १९२ । सन्मति॰ टी॰ पृ॰ ५९५ । स्या॰ र॰ प॰ २८३ । -
रूपादि
↩
सुखादिलक्षण । -
चक्षुरादि-मानसादिरूप ।
↩ - ↩
-
लघीयस्त्रयस्य ज्ञानमाद्य स्मृति का॰ १०
↩
इति कारिकायाम्, परीक्षामु॰ ३ । २ । प्रमाणनय॰ ३ । २ । प्रमाणमी॰ १ । २ । २ । इत्यादिषु च । -
तुलना –प्रमेयक॰ पृ॰ १९३ । स्या॰ र॰ पृ॰ २८३ ।
↩ -
सकल्पनं श्र॰ ।
↩