521 सङ्कलनस्वभावञ्च, अतः कथं प्रत्यभिज्ञानात् व्यतिरिच्येत ? य5033द् दर्शनस्मरणका5034रणकं
सादृश्यादिसङ्कलनस्वभावञ्च तत् प्रत्यभिज्ञानमेव यथा प्रसिद्धप्रत्यभिज्ञान5035म्, त5036त्कारणकं
सादृश्यादिसङ्कलनस्वभावञ्चोपमानमिति ।


तद् इत्यादिना प्रकृतोपसंहारमाह–यस्माद् उपमानादेः परोक्षेऽन्तर्भावः तत्
तस्मात् समञ्जसम् उपपन्नम् प्रत्यक्षं परोक्षञ्च इति एवं द्वे एव प्रमाणे इति । कुत
एतत् ? इत्यत्राह–अन्यथा इत्यादि । अन्यथा अन्येन प्रकारेण तेषां प्रमाणानां
सङ्ख्याया अनवस्थानादिति ॥ छ ॥


मिथ्यायुक्तिपलालकूटनिचयं प्रज्वाल्य निःशेषतः,

सम्यग्युक्तिम5037हांशुभिः पुनरियं व्याख्या परोक्षे कृता ।

येनासौ निखिलप्रमाणकमलप्राज्यप्रबोधप्रदः,

भास्वानेष5038 जयत्यचिन्त्यमहिमा शास्ताऽकलङ्को जिनः ॥ छ ॥

इति श्री5039प्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे लघीयस्त्रयालङ्कारे तृतीयः प5040रिच्छेदः ॥ छ ॥


प्रमाणप्रवेशे चतुर्थ आगमपरिच्छेदः ।


प्रत्यक्षेतररूपमानमखिलं व्याख्याय साभासताम्,

तस्य5041 ख्यापयितुं कथञ्चिदधुना प्रारभ्यते प्रक्रमः ।

मिथ्यैकान्तमहान्धकूपपतनव्यामुग्धबुद्धेः स्फुटम्,

कः सन्मार्गनिरूपणेऽत्र कुशलः स्याद्वादभानोः परः ॥ १ ॥

अथ प्रमाणाभासत्वेन5042 प्रसिद्धं विज्ञानं कथञ्चिदेव तदाभासं न सर्वथेति प्रदर्शयन्नाह–


प्र10163
  1. उपमान प्रत्यभिज्ञानात्मकमेव दर्शनस्मरणकारणकत्वे सति सादृश्यादिसङ्कलनस्वभाव
    त्वात् ।

  2. –कारण संकलन– आ॰, श्र॰

  3. स एवाय जिनदत्त इत्येकत्वप्रत्यभिज्ञानम् ।

  4. तत्कारणं सादृ– ब॰

  5. –महामुनि पु– ब॰

  6. –नेष
    जयत्परोक्षमहि–
    ब॰

  7. श्रीमत्प्रभा– ब॰

  8. परिच्छेद समाप्त ॥ ब॰

  9. मानस्य

  10. –त्वेन सिद्धविज्ञा– ब॰

  11. स्याद् भवेत् ।
    किम् ? प्रत्यक्षाभ प्रत्यक्षप्रमाणाभासमित्यर्थ । अक्षमिन्द्रियानिन्द्रिय प्रति नियत प्रत्यक्ष ज्ञान
    मात्रम् तदिवाभातीति व्युत्पत्ते । किं विशिष्टम् ? तैमिरादिक तिमिरादागत तैमिर तदादिर्यस्य
    आशुभ्रमणादे तथोक्तम् । तत् किं स्यात् ? प्रमाण भवति । कथम् ? कथञ्चित् भावप्रमेयापेक्षया
    द्रव्यापेक्षया वा, न सर्वथा प्रमाणाभासमेव, बहिरर्थाकारविषय एव ज्ञानस्य विसवादात् स्वरूपापेक्षया
    तस्याविसवादात् । अत्राविनाभाव दर्शयति यदित्यादि । यज्ज्ञान यथैव यावद्विषयावबोधनप्रकारेण
    अविसवादि, विसंवादो गृहीतार्थव्यभिचार तद्रहितमविसवादि, तज्ज्ञान तथा तावद्विषयावबोधन-