कारिकार्थ–
धर्मः सद्वेद्यशुभायुर्नामगोत्रलक्षणं पुण्य21म्, उत्तमक्षमादिस्वरूपो वा22, तत्साध्यः कर्त्तृशु
भफलदः पुद्गलपरिणामो वा23, जीवादिवस्तुनो यथावस्थित24स्वभावो वा । न पुनः
परपरिकल्पित आत्मविशेष25गुणः, द्रव्यगुणकर्मलक्षणो वा26, प्रकृतिपरिणाम
विशेषो वा27, अचेतन28स्वभावो वा, तस्याऽग्रे यथास्थानं निराकरिष्यमाण
त्वात् । स एव तीर्थं संसारार्णवोत्तरणहेतुत्वात्, तस्य वा तीर्थम् आगमस्तदवगाहनहेतु
त्वात्, तत् कृतवन्तोऽनुष्ठितवन्तः उपदिष्टवन्तश्च ये29 ऋषभादिमहावीरान्ता भगवन्त
स्तेभ्यो नमोनमः अस्तु इत्याभीक्ष्ण्यप्रयोगेणात्यर्थं नमस्क्रियायां व्यापृतमात्मानं दर्श
यति । पुनरपि किंविशिष्टेभ्यः ? स्याद्वादिभ्यः, 10163
-
सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् । तत्त्वा॰ सू॰ ८ । २५ । सद्वेद्यसम्यक्त्वहास्यरतिपुरु
↩
षवेदशुभायुर्नामगोत्राणि पुण्यम् । तत्त्वार्थभा॰ ८ । २६ । -
उत्तमक्षमामार्दवार्जवशौचसत्यसंय
↩
मतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्म । तत्त्वा॰ सू॰ ९ । ६ । -
पुद्गलस्य कर्तृनिश्चयकर्मतामा
↩
पन्नो विशिष्टप्रकृतित्वपरिणामो जीवशुभपरिणामनिमित्तो द्रव्यपुण्यम् । पञ्चास्ति॰ तत्त्व॰ पृ॰ १९६ । -
–तत्त्वभा– आ॰, ब॰, ज॰ । धम्मो वत्थुसहावो खमादिभावो य दसविहो धम्मो । चारित्तं खलु
↩
धम्मो जीवाणं रक्खणो धम्मो ॥ उक्तं च इति कृत्त्वा षट्प्रा॰ टी॰ पृ॰ ८ । -
प्रीतेरात्माश्रयत्वाद
↩
प्रतिषेध । न्या॰ सू॰ ४ । १ । ५२ । प्रीति आत्मप्रत्यक्षत्वाद् आत्माश्रया, तदाश्रयमेव कर्म धर्मसंज्ञि
तम्, धर्मस्य आत्मगुणत्वात् तस्मादात्मव्यतिरेकानुपपत्ति । न्याय भा॰ पृ॰ ३७३ । धर्म पुरुषगुण
कर्त्तु प्रियहितमोक्षहेतु अतीन्द्रियः अन्त्यसुखसंविज्ञानविरोधी पुरुषान्त करणसंयोगविशुद्धाभिसन्धिज व
र्णाश्रमिणां प्रतिनियतसाधननिमित्त । तस्य तु साधनानि श्रुतिस्मृतिविहितानि वर्णाश्रमिणां सामान्यविशेष
भावेन अवस्थितानि द्रव्यगुणकर्माणिदृष्टं प्रयोजनमनुद्दिश्य एतानि साधनानि भावप्रसादं च अपेक्ष्य
आत्ममनसो संयोगाद् धर्मोत्पत्तिरिति । प्रश॰ भा॰ पृ॰ २७२ । -
श्रेयो हि पुरुषप्रीति सा द्रव्य
↩
गुणकर्मभि । चोदनालक्षणै साध्या तस्मात्तेष्वेव धर्मता ॥ १९१ ॥ मी॰ श्लो॰ सू॰ २ । -
अध्यवसायो
↩
बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥ २३ ॥ तत्र बुद्धे सात्त्विकं
रूपं चतुर्विधं भवति–धर्मो ज्ञानं वैराग्यमैश्वर्यम् इति"–सांख्य का॰ माठर वृ॰ । अन्तःकरणधर्मत्वं धर्मा
दीनाम् । सांख्य द॰ ५ । २५ । -
चेतननानास्व– भा॰ । बौद्धास्तु धर्मशब्दार्थमित्थं वर्णयन्ति–
↩
आत्मसंयमकं चेत परानुग्राहकं च यत् । मैत्रं स धर्म तद्बीजं फलस्व प्रेत्य चेह च । ?…धर्मशब्दोऽयं
प्रवचने त्रिधा व्यवस्थापित स्वलक्षणधारणार्थेन, कुगतिगमनविधारणार्थेन, पाञ्चगतिकसंसारगमनविधारणार्थे
न । तत्र स्वलक्षणधारणार्थेन सर्वे साश्रवा अनाश्रवाश्च धर्मा इत्युच्यन्ते, कुगतिगमनविधारणार्थेन च दश
कुशलादयो धर्मा इत्युच्यन्ते–धर्मचारी सुखं शेते अस्मिंल्लोके परत्र च । पाञ्चगतिकसंसारविधारणार्थेन निर्वाणो
धर्म इत्युच्यते । धर्मं शरणं गच्छति इत्यत्र कुगतिगमनविधारणार्थेनैव धर्मशब्दोभिप्रेतः' । माध्यमिक वृ॰
पृ॰ ३०३-३०४ । -
–ये ते वृष– भां॰ ।
↩ -
वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषकः । स्यान्नि
↩
पातोऽर्थयोगित्वात् तव केवलिनामपि ॥ १०३ ॥ आप्तमी॰ । युक्त्यनु॰ श्लो॰ ४७ । स च तिङ्न्त
प्रतिरूपको निपात, तस्य अनेकान्तविधिविचारादिषु बहुष्वर्थेषु संभवत्सु इह विवक्षावशात् अनेकान्तार्थो