कारिकार्थ–


धर्मः सद्वेद्यशुभायुर्नामगोत्रलक्षणं पुण्य21म्, उत्तमक्षमादिस्वरूपो वा22, तत्साध्यः कर्त्तृशु
भफलदः पुद्गलपरिणामो वा23, जीवादिवस्तुनो यथावस्थित24स्वभावो वा । न पुनः
परपरिकल्पित आत्मविशेष25गुणः, द्रव्यगुणकर्मलक्षणो वा26, प्रकृतिपरिणाम
विशेषो वा27, अचेतन28स्वभावो वा, तस्याऽग्रे यथास्थानं निराकरिष्यमाण
त्वात् । स एव तीर्थं संसारार्णवोत्तरणहेतुत्वात्, तस्य वा तीर्थम् आगमस्तदवगाहनहेतु
त्वात्, तत् कृतवन्तोऽनुष्ठितवन्तः उपदिष्टवन्तश्च ये29 ऋषभादिमहावीरान्ता भगवन्त
स्तेभ्यो नमोनमः अस्तु इत्याभीक्ष्ण्यप्रयोगेणात्यर्थं नमस्क्रियायां व्यापृतमात्मानं दर्श
यति । पुनरपि किंविशिष्टेभ्यः ? स्याद्वादिभ्यः, 30स्याच्छब्दोऽनेकान्तार्थः, स्यात्
4 स्व31पररूपादिना सदसदाद्यनेकान्तात्मकं वस्तु वदन्तीत्येवंशीलास्तेभ्यः । किमर्थं तेभ्यो नमोन
मोस्तु ? इत्याह–स्वात्मोषलब्धये स्वस्य नमस्कर्त्तु आत्मा नास्तिकतापरिहारादिविशिष्टं
स्वरूपम्, तस्य उपलब्धये सकलजनप्रतीतये । अथवा, स्वस्य नमस्कर्त्तुरात्मनोऽनन्तज्ञानादि
स्वरूपस्य उपलब्धये सिद्धये सिद्धिः स्वात्मोषलब्धिः स॰ सिद्ध भ॰ श्लो॰ १ इत्यभिधानात् ।


ननु चैकस्यापीष्टदेवताविशेषस्य नमस्कारकरणान्नास्तिकतापरिहारादिप्रयोजनप्रसिद्धेरशेषस्य
तत्करणप्रयासो निष्प्रयोजन इति चेत्; तन्न, अशेषेष्टदेवताविशेषसंस्तवनस्य अशेषविघ्नविनाशेन
अशेषप्रमाण-प्रमेय-नय-निक्षेपनिरूपणपरिसमाप्तिप्रयोजनेन सप्रयोजनत्वात् । न खलु निखि32लं
प्रमाणादिप्ररूपणं निखिलविघ्नविनाशव्यतिरेकेण सिद्धिमध्यास्ते, निखिलविघ्नविनाशोऽप्यखिलेष्ट
देवतासंस्तव33नव्यतिरेकेण । अथवा सर्वेषामप्यविशेषतो विघ्नविनाशनिमित्तत्वख्यापनार्थं तत्क
रणम्, उक्तविशेषणविशिष्टेष्टदेवताविशेषस्य इयत्ताख्यापनार्थ वा । अस्तु नामैतत्; तथापि–अन
न्तगुणोदधिस्वरूपाणां भगवतामनन्तगुणसद्भावे किमित्येतद्गुणद्वयद्वारेण संस्तवनम् ? इत्य34
प्यचोद्यम्; शास्त्रकृतस्तद्गुणार्थित्वात्, यो य35द्गुणार्थी स तद्गुणोपेतं पुरुषविशेषं नमस्कुर्वा
णो दृष्टः यथा कश्चिद्धनुर्वेदपरिज्ञानार्थी तत्परिज्ञानगुणोपेतम्, धर्मतीर्थकरत्व-स्याद्वादित्वगुणार्थी
चायं शास्त्रकार इति ।


ननु क्षणिक-नित्यत्वादि-यथावस्थितवस्तुस्वभाववादित्वात् सुगतेश्वरकपिलब्रह्मणामेव धर्म
तीर्थकरत्वम्, अतस्त एव शास्त्रस्यादौ वन्द्या तत्प्रणीतमेव च प्रमाणादिलक्षणं तत्र36 व्युत्पादना
र्हम् इत्याशङ्क्य स्वप्रमाणादिलक्षणवर्त्मनि37 कण्टकशुद्ध्यर्थं निराकुर्वन्नाह–


  1. सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम्तत्त्वा॰ सू॰ ८ । २५ । सद्वेद्यसम्यक्त्वहास्यरतिपुरु
    षवेदशुभायुर्नामगोत्राणि पुण्यम् ।
    तत्त्वार्थभा॰ ८ । २६ ।

  2. उत्तमक्षमामार्दवार्जवशौचसत्यसंय
    मतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्म
    । तत्त्वा॰ सू॰ ९ । ६ ।

  3. पुद्गलस्य कर्तृनिश्चयकर्मतामा
    पन्नो विशिष्टप्रकृतित्वपरिणामो जीवशुभपरिणामनिमित्तो द्रव्यपुण्यम्
    पञ्चास्ति॰ तत्त्व॰ पृ॰ १९६ ।

  4. –तत्त्वभा– आ॰, ब॰, ज॰धम्मो वत्थुसहावो खमादिभावो य दसविहो धम्मो । चारित्तं खलु
    धम्मो जीवाणं रक्खणो धम्मो
    उक्तं च इति कृत्त्वा षट्प्रा॰ टी॰ पृ॰ ८ ।

  5. प्रीतेरात्माश्रयत्वाद
    प्रतिषेध ।
    न्या॰ सू॰ ४ । १ । ५२ । प्रीति आत्मप्रत्यक्षत्वाद् आत्माश्रया, तदाश्रयमेव कर्म धर्मसंज्ञि
    तम्, धर्मस्य आत्मगुणत्वात् तस्मादात्मव्यतिरेकानुपपत्ति ।
    न्याय भा॰ पृ॰ ३७३ । धर्म पुरुषगुण
    कर्त्तु प्रियहितमोक्षहेतु अतीन्द्रियः अन्त्यसुखसंविज्ञानविरोधी पुरुषान्त करणसंयोगविशुद्धाभिसन्धिज व
    र्णाश्रमिणां प्रतिनियतसाधननिमित्त । तस्य तु साधनानि श्रुतिस्मृतिविहितानि वर्णाश्रमिणां सामान्यविशेष
    भावेन अवस्थितानि द्रव्यगुणकर्माणिदृष्टं प्रयोजनमनुद्दिश्य एतानि साधनानि भावप्रसादं च अपेक्ष्य
    आत्ममनसो संयोगाद् धर्मोत्पत्तिरिति
    । प्रश॰ भा॰ पृ॰ २७२ ।

  6. श्रेयो हि पुरुषप्रीति सा द्रव्य
    गुणकर्मभि । चोदनालक्षणै साध्या तस्मात्तेष्वेव धर्मता
    ॥ १९१ ॥ मी॰ श्लो॰ सू॰ २ ।

  7. अध्यवसायो
    बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम्
    ॥ २३ ॥ तत्र बुद्धे सात्त्विकं
    रूपं चतुर्विधं भवति–धर्मो ज्ञानं वैराग्यमैश्वर्यम् इति"सांख्य का॰ माठर वृ॰अन्तःकरणधर्मत्वं धर्मा
    दीनाम्
    । सांख्य द॰ ५ । २५ ।

  8. चेतननानास्व– भा॰ । बौद्धास्तु धर्मशब्दार्थमित्थं वर्णयन्ति–
    आत्मसंयमकं चेत परानुग्राहकं च यत् । मैत्रं स धर्म तद्बीजं फलस्व प्रेत्य चेह च । ?…धर्मशब्दोऽयं
    प्रवचने त्रिधा व्यवस्थापित स्वलक्षणधारणार्थेन, कुगतिगमनविधारणार्थेन, पाञ्चगतिकसंसारगमनविधारणार्थे
    न । तत्र स्वलक्षणधारणार्थेन सर्वे साश्रवा अनाश्रवाश्च धर्मा इत्युच्यन्ते, कुगतिगमनविधारणार्थेन च दश
    कुशलादयो धर्मा इत्युच्यन्ते–धर्मचारी सुखं शेते अस्मिंल्लोके परत्र च । पाञ्चगतिकसंसारविधारणार्थेन निर्वाणो
    धर्म इत्युच्यते । धर्मं शरणं गच्छति इत्यत्र कुगतिगमनविधारणार्थेनैव धर्मशब्दोभिप्रेतः'माध्यमिक वृ॰
    पृ॰ ३०३-३०४

  9. –ये ते वृष– भां॰

  10. वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषकः । स्यान्नि
    पातोऽर्थयोगित्वात् तव केवलिनामपि
    ॥ १०३ ॥ आप्तमी॰ । युक्त्यनु॰ श्लो॰ ४७ । स च तिङ्न्त
    प्रतिरूपको निपात, तस्य अनेकान्तविधिविचारादिषु बहुष्वर्थेषु संभवत्सु इह विवक्षावशात् अनेकान्तार्थो
    n4 गृह्यते
    त॰ राजवा॰ पृ॰ १८१सर्वया तत्प्रयोगेऽपि सत्त्वादिप्राप्तिविच्छिदे । स्यात्कार सप्रयु
    ज्येत अनेकान्तद्योतकत्वत
    ॥ ५४ ॥ तत्त्वार्थश्लो॰ १ । ६ । पञ्चा॰ तत्त्वप्र॰ पृ॰ ३० । स्याद् इत्य
    व्ययम् अनेकान्तावद्योतकम्
    रत्नाकरावता॰ ४ । १५ । सिद्ध हे॰ पृ॰ १ । स्या॰ म॰ पृ॰ १५ ।

  11. स्वरूपपर– भा॰

  12. –खिल प्र– भा॰

  13. –वनाव्य– आ॰, ब॰, ज॰

  14. –त्यचो– भा॰

  15. तुलना–यो यद्गुणलब्ध्यथा स तं वन्द्यमानो दृष्ट, यथा शस्त्रविद्यादिगुणलब्ध्यथी शस्त्रविद्यादिविदं
    तत्प्रणेतार च
    आप्तप॰ पृ॰ ३ ।

  16. शास्त्रे ।

  17. –निष्कंट– ब॰