798

सप्तमः निक्षेपपरिच्छेदः ।


प्रादुर्भूतं निखिलविषयोद्योतिसंवित्सरस्याम्,

शास्त्राम्भोजं सकलविषयप्रौढ8985पत्रप्रपञ्चम् ।

लक्ष्मीक्षेत्रं प्रमितिनयसत्कर्णिकाकेसराढ्यम्,

निक्षेपोरुप्रवरमकरन्दाप्तये सेव्यतां8986 भोः ॥ छ ॥

अथेदानीं शास्त्रविधानाध्ययनपर्यवसितफलप्ररूपणपुरस्सरं निक्षेपस्वरूपं प्ररूपयन्नाह–


श्रुता8987दर्थमनेकान्तम8988धिगम्याभिसन्धिभिः ।

परीक्ष्य तांस्तान् तद्धर्माननेकान् व्यावहारिकान् ॥ ७३ ॥

नयानुगतनिक्षेपैरुपायैर्भेद8989वेदने ।

वि8990रचय्यार्थवाक्प्रत्ययात्मभेदा8991न् श्रुतार्पितान् ॥ ७४ ॥

  1. –प्रौढमेयप्र– ब॰

  2. –तां नो ब॰, –ता भो श्र॰

  3. व्याख्या–पुनरपि कथभूत ? तपोनिर्जीर्णकर्मा, तपसा यथाख्यातचारित्रलक्षणेन
    व्युपरतक्रियानिवृत्तिशुक्लध्यानेन निर्जीर्णानि निर्मूलितानि कर्माणि ज्ञानावरणादीनि द्रव्यभावरूपाणि
    येनासौ तथोक्त । अनेन चारित्रतपस्याराधनाद्वय सूचितम् । भूय किंभूत ? जीवस्थानगुणस्थान
    मार्गणास्थानतत्त्ववित् अनेन ज्ञानाराधना ज्ञापि>ता । पुन किंविशिष्ट ? विवृद्धाभिनिवेशन, विशेषेण
    वृद्ध क्षायिकस्वरूपेण परिणतमभिनिवेशन सम्यग्दर्शन यस्यासौ तथोक्त । अनेन दर्शनाराधना निरूपिता ।
    एवमाराधनाचतुष्टयस्यैव मोक्षमार्गत्वोपपत्ते । किं कृत्वा विवृद्धाभिनिवेशन सजात इत्याशक्याह–
    अनुयुज्य पृष्ट्वा । कानि ? द्रव्याणि । किंविशिष्टानि ? जीवादीनि । कै ? अनुयोगैश्च प्रश्नैरेव । किं
    विशिष्टै ? निर्देशादिभिदा गतैः । तत्र किमित्यनुयोगे वस्तुस्वरूपकथन निर्देश यथा चेतनालक्षणो
    जीव इति । कस्येत्यनुयोगे स्वस्येत्याधिपत्यकथन स्वामित्वम् । केनेति प्रश्ने स्वेनेति करणनिरूपण
    साधनम् । कस्मिन्नित्यनुयोगे स्वस्मिन्नित्याधारप्रतिपादनमधिकरणम् । कियच्चिरमिति प्रश्ने अनन्त
    कालमिति कालप्ररूपण स्थिति । कतिविध इत्यनुयोगे चैतन्यसामान्यादेकविध इति प्रकारकथन विधा
    नम् । पूर्वं कृत्वा विरचय्य न्यस्य । कान् ? अर्थवाक्प्रत्ययात्मभेदान्, अर्थश्च वाक् च प्रत्ययश्च
    ते आत्मान स्वभावा येषा ते च ते भेदाश्च व्यवहारास्तान् । तत्र अर्थात्मानौ भेदौ द्रव्यभावौ तयोर
    र्थधर्मत्वात् । वागात्मको नामव्यवहार । प्रत्ययात्मकश्च स्थापनाव्यवहार तस्य सकल्परूपत्वात् ।
    किंविशिष्टास्तान् ? श्रुतार्पितान् श्रुतेन अनेकान्तेन विकल्पितान् । कै ? नयानुगतनिक्षेपै, नयान्
    द्रव्यपर्यायविषयाननुगता अनुवृत्ता निक्षेपा न्यासास्तै । किंरूपै ? उपायै कारणैः । क्व ? भेदवेदने
    मुख्यामुख्यविशेषनिर्णये कारणभेदैरित्यर्थ । आदौ किं कृत्वा ? परीक्ष्य विचार्य । कै परीक्ष्य ? अभिस
    धिभि ज्ञातुरभिप्रायै नयैरित्यर्थ । पूर्वं किं कृत्वा ? अधिगम्य ज्ञात्वा । कमर्थम् ? जीवादिप्रमेयम् ।
    किंविशिष्टम् ? अनेकान्तात्मकम् । कस्मात् ? श्रुतात् स्याद्वादात् ।
    लघी॰ ता॰ पृ॰ ९५–९७ ।

  4. –मभिग– ब॰

  5. –वेदनो आ॰, ब॰

  6. विचार्यार्थवाक्– श्र॰

  7. –भेदाच्छ्रुता– ब॰